________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२६
प्रभवति || ६।३।१५७ ॥ [प्रभवति ] 'भू सत्तायाम्' (१) भू, प्रपूर्व० । प्रभवतीति प्रभवत् । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । 'कर्त्तर्यनद्भ्यः शव् (३।४।७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । तस्मिन् ।
प्रथममुपलभ्यमानता प्रभवः । अन्ये प्रभवति-जायमाने इत्याहुः । 'जाते' (६।३।९८) इति भूते सप्तम्यन्तात् प्रत्ययः । अयं तु पञ्चम्यन्ताद्वर्त्तमाने इति विशेषः ।
[हैमवती गङ्गा ] हिमवत् । हिमवतः प्रभवति = हैमवती । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः ऐ । 'अणजेयेकण्' (२।४।२०) ङी, गङ्गा ।
[दारदी सिन्धुः ] दरद् । दरदो देशात् प्रभवति = दारदी । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः आ । 'अणजेयेकण्०' (२।४।२०) ङी ।।
[काश्मीरी वितस्ता] कश्मीरेभ्यः प्रभवति = काश्मीरी । 'कोपान्त्याच्चाऽण' (६।३।५६) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४|१) वृद्धिः आ । 'अणजेयेकण्०' (२।४।२०) ङी । वितस्ता नदीपर्याय उच्यते ॥छ।।
वैडर्यः ॥ ६।३।१५७ ॥
[वैडूर्यः] वैडूर्य प्रथमा सि ।
[वैडूर्यो मणिः] टवर्गतृतीयः ‘विड आक्रोशे' (२५२) विड् । वेडतीति विडूरः । 'स्था-विडे: कित्' (उणा० ४२९) किद् ऊरप्र० । विडूरात् प्रभवति = वैडूर्यः । अनेन ज्यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०, मणिः ।
विडूरग्रामे ह्ययं संस्क्रियमाणो मणितया ततः प्रथमं प्रभवति । वालवायात्तु पर्वतात् असौ प्रभवन्नसौ न मणिः किन्तु पाषाणः । विडूर । विडूरात् प्रभवति । मतान्तरेऽनेनैव विडूरादेशश्च निपात्यते । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । वालवायपर्याय एव वा विडूरशब्दः । यद्येवं तर्हि सर्वत्रापि वालवे(वा)यपर्यायो विडूरशब्दः प्रयुज्यते । इत्याहप्रतिनियतविषयाश्च रूढ्या वैयाकरणानामेव प्रसिद्धिः । अस्य वचसो दृढतोच्यते । इति वैयाकरणानामेव विडूरशब्दस्य वालवे(वा)य(ये) प्रसिद्धिर्नान्येषाम् । यथा जित्वरीशब्देन वणिज एव वाणारसी व्यवहरन्ति ।
त्यदादेर्मयट् ॥ ६।३।१५९ ॥
[त्यदादेः] त्यद् आदिर्यस्य सः = त्यदादिः, तस्मात् । [मयट] मयट प्रथमा सि ।
[तन्मयम्, तन्मयी] तस्मात् प्रभवति = तन्मयः(यम्), तन्मयी । अनेन मयट्प्र० → मय । 'धुटस्तृतीयः' (२।१।७६) द० → द० । 'प्रत्यये च' (१।३।२) द० → न० । द्वितीये 'अणजेयेकण्०' (२।४।२०) ङी । [भवन्मयम्, भवन्मयी] भवतः प्रभवति = भवन्मयः(यम्), भवन्मयी । अनेन मयट्प्र० → मय । शेषं पूर्ववत् ॥छ।।
तस्येदम् ।। ६।३।१६० ।।
[तस्य] तस्य पञ्चमी ङसि । सूत्रत्वाल्लुप् ।
[इदम्] इदमोऽर्थः = इदमर्थस्तस्मिन् । 'ते लुग्वा' (३।२।१०८) अर्थस्य लोपः । सूत्रत्वात् डिलोपः । अथवा इदम् अग्रे प्रथमाया एकवचनस्य सि । 'अनतो लुप्' (१।४।६९) इति सिलुप्, तदा इदमर्थ इति कथं लभ्यते सप्तम्याभावात् ?
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [269]