________________
२७०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
उच्यते-'वाद्यात्' (६।१।११) इति सूत्रत्वात् । अयमर्थः - यत्सूत्रे आदौ निर्दिश्यते सा प्रकृति(:) अन्यत् प्रत्ययार्थे संभवति ।
[औपगवम् ] गोः समीपम् = उपगुः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । उपगोरिदमौपगवम् । 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । सि-अम् ।
[कापटवम् ] कपटु । कपटोरिदं = कापटवम् । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । सि-अम् ।
[स्त्रौघ्नम् ] स्रुघ्नस्येदं = स्रौघ्नम् । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[माथरम् ] मथुराया इदं = माथुरम् । अनेन 'प्राग् जितादण' (६।१।१३) अणप्र० + अ । 'वद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[दैत्यम् ] दिति । दितेरयं = दैत्यः । 'अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्युत्तरपदाळ्यः (६।१।१५) ज्यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[बार्हस्पत्यम्] बृहस्पतेरिदं = बार्हस्पत्यम् । 'अनिदम्यणपवादे०' (६।१।१५) ब्यप्र० → य । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[कालेयम् ] कलेरिदं = कालेयम् । 'कल्यग्नेरेयण' (६।१।१७) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[आग्नेयम् ] अग्नेरिदम् = आग्नेयम् । 'कल्यग्नेरेयण' (६।१।१७) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[औत्सम् ] उत्सस्येदम् = औत्सम् । 'उत्सादेरञ्' (६।१।१९) अप्र० → अ । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[स्त्रैणम् ] स्त्रीणामिदं = स्त्रैणम् । 'प्राग्वतः स्त्री-पुंसात् नञ्-स्नज्' (६।१।२५) नप्र० → न । 'वृद्धिः स्वरेष्वादेफिति०' (७४।१) वृद्धिः ऐ ।
[पौंस्नम् ] पुंसामिदं = पौंस्नम् । 'प्राग्वतः स्त्री-पुंसात्०' (६।१।२५) स्नप्र० → स्न । 'वृद्धि: स्वरे०' (७।४।१) वृद्धिः औ । शिड्हेऽनुस्वारः' (१।३।४०) अनुस्वारः । 'पदस्य' (२।१।८९) सलुक् । सि-अम् सर्वत्र ।
[गव्यम् ] गो । गोरिदं = गव्यम् । 'गोः स्वरे यः' (६।१।२७) यप्र० । 'य्यक्ये' (१।२।२५) अव् ।
[नादेयम् ] नद्या इयं = नादेयम् । 'नद्यादेरेयण' (६।३।२) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) ईलुक् ।
[राष्ट्रियम् ] राष्ट्रस्येदम् । 'राष्ट्रादियः' (६।३।३) इयप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । [पारीणः] पारस्य इदम् । 'व्यस्त-व्यत्यस्तात्' (६।३।७) ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [भानवीयः] भानोरिदं = भानवीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अस्वयम्भुवोऽव्' (७४/७०) अव् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [270]