________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२६७
आगतं = वैदम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । सि-अम् ।
[गार्गम् ] गर्गस्यापत्यं वृद्धं = गार्ग्यः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक । गार्याणामङ्कः । 'सङ्क-घोषा-ऽङ्क०' (६।३।१७२) इति अण्वत् गार्गेभ्यः आगतं = गार्गम । अनेन अणप्र० अ । 'वृद्धिः स्वरे.' (७४।१) वद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् ।
[दाक्षम् ] दक्षस्यापत्यं वृद्धं = दाक्षिः । 'अत इञ् (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । दाक्षरेङ्कः । 'सङ्घ-घोषा-ऽङ्क०' (६।३।१७२) इति अण्वत् दाक्षेरागतं = दाक्षम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । सि-अम् । अङ्कग्रहणेन तस्येदमित्यर्थसामान्य लक्ष्यते, तेन अकञोऽप्यतिदेशः ।
[औपगवकः] उपगोरपत्यम् = औपगवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अस्वयम्भुवोऽव् (७४/७०) अव् । औपगवानामङ्कः । 'गोत्राददण्डमाणव-शिष्ये' (६।३।१६९) अकञ्वत् औपगवेभ्य आगतः = औपगवकः । अनेन अकप्र० → अक । 'अवर्णे' (७।४।६८) अलुक् ।
[कापटवकः] कपटु । कपटोरपत्यं = कापटवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव् (७४/७०) अव् । कापटवानामङ्कः । 'गोत्राददण्डमाणव०' (६।३।१६९) अकञ्वत् कापटवेभ्य आगतः = कापटवकः । अनेन अकप्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[नाडायनकः] नडस्यापत्यं = नाडायनः । 'नडादिभ्य आयनण्' (६।१।५३) आयनण्प्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । नाडायनानामङ्कः । 'गोत्राददण्डमाणव०' (६।३।१६९) अकञ्वत् नाडायनेभ्य आगतः = नाडायनकः । अनेन अकञ्प्र० → अक । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[गाायणकः] गर्गस्यापत्यं वृद्धं = गार्ग्यः । 'गर्गादेर्य' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । गार्ग्यस्यापत्यं युवा = गाायणः । 'यजिञः' (६।१।५४) आयनण्प्र०
→ आयन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । गाायणानामङ्कः । 'गोत्राददण्डमाणव०' (६।३।१६९) अकञ्वत् गाायणेभ्य आगतः = गाायणकः । अनेन अकञ्प्र० → अक । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[रैवतिकीयम् ] रेवत । 'रेवत-रोहिणाद् भे' (२।४।२६) ङी । रेवत्या चन्द्रयुक्तया युक्तः कालोऽपि = रेवती । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वयुक्ते" अण्लुप् । रेवत्यां जाता = रेवती । 'भर्तु-सन्ध्यादेरण्' (६।३।८९) अण्प्र० । 'चित्रा-रेवती-रोहिण्याः स्त्रियाम्' (६।३।१०८) अण्लुप् । रेवत्या अपत्यानि = रैवत्यः । 'रेवत्यादेरिकण्' (६।३।८६) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) ईलुक् । रैवतिकेभ्य आगतं = रैवतिकीयम् । 'रैवतिकादेरीयः' (६।३।१७०) इत्यनेन ईयवत् अनेनैव ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [267]