________________
२६६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
स्वामिग्राह्यो भाग आय:, स यस्मिन्नुत्पद्यते तद् आवस्थानम् ।
[ आतरिकम् ] 'तू प्लवन-तरणयो:' (२७) तू, आङ्पूर्व० । एत्य तरन्त्यस्मिन्निति आतरः । पुन्नाम्नि घः' (५|३|१३०) घप्र० अ 'नामिनो गुणो०' (४३११) गु० अर् आतरादागतम् आतरिकम् । अनेन इकण्प्र० इक । 'अवर्णेवर्णस्य' (७|४|६८) अलोपः ।
[ शौल्कशालिकम् ] शुल्कशालाया आगतं = शौल्कशालिकम् । अनेन इकण्प्र० इक । 'वृद्धिः स्वरे० ' (७१४१) वृ० औ 'अवर्णैवर्णस्य' (७७४६८) अवर्णस्य लुक् ।
[ आपणिकम् ] आपणादागतम् = आपणिकम् । अनेन इकण्प्र०इक [ दौवारिकम् ] द्वारादागतं = दौवारिकम् । अनेन इकण्प्र०इक 'अवर्णेवर्णस्य' (७७४६८) अलुक् ॥
'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
'द्वारादेः' (७७४६ ) वात् प्राग् औ ।
शुण्डिकारण् || ६|३|१५४ ॥
=
[ शुण्डिकादे:] शुण्डिकः शुण्डिका वा आदिर्यस्य स: शुण्डिकादिः तस्मात् । [ अण् ] अण् प्रथमा सि ।
=
'आयस्थानात्' (६।३।१५३) इत्यनेन आदिपदात् अकञीययोरपवादः ।
[ शौण्डिकम् ] शुण्ड: गुण्डा वा सुरा, सोऽस्यास्ति शुण्डिक:- शुण्डिका वा । व्रीह्यादिभ्यस्तौ (७/२/५) इकप्र० । 'अवर्णेवर्णस्य' (७१४/६८) अवर्णस्य लुक् । सुरापणः सुराविक्रयी वोच्यते । शुण्डिकात् शुण्डिकाया वा आगतं = शौण्डिकम् । अनेन अण्प्र० अ । 'वृद्धिः स्वरेष्वादेर्ज्जिति०' (७|४|१) वृद्धिः औ । 'अवर्णवर्णस्य'
(७|४|६८) अवर्णस्य लुक् ।
=
[ औदपानम् ] उदकस्य पानम् उदपानम् । 'नाम्न्युत्तरपदस्य च ' ( ३२ १०७) उदकस्य उदभावः क्रियते । औदपानम् । अनेन अण्प्र० अ । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् ।
उदपानादागतम् =
[ कार्कणम् ] कृकण । कृकणात् पक्षिविशेषादागतं मांसादि कार्कणम् । अनेन अण्प्र० अ । 'वृद्धिः स्वरेष्वादेर्ज्जिति०' (७|४|१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् । अकञीयबाधनार्थमिति अयमर्थ:-यदा शुण्डिकादीनि सर्वाण्यप्यायस्थानान्येव तदा तीर्थाद् धूमादकञः पर्ण-कृकणाभ्यां च ईयस्यापवादे 'आयस्थानात्' (६|३|१५३) इतीकणि प्राप्ते अयमारम्भादिकणि निवृत्ते यथाप्राप्तमिति ततोऽकजीयौ प्राप्नुतः । अतस्तौ बाधित्वा ततोऽसौ यथास्यादित्येवमर्थमण्ग्रहणम् ||छ |
गोत्राङ्कवत् || ६|३|१५५ ॥
[ गोत्रात्] गोत्र पञ्चमी इसि ।
[ अङ्कवत् ] अङ्के इव = अङ्कवत् । 'तत्र' (७७११५३) वत्प्र० प्रथमा सि
[वैदम् ] विदस्यापत्यानि वृद्धानि । 'विदादेर्वृद्धे' (६।१।४१) अञ्प्र० । 'यञञोऽश्यापर्णान्त-गोपवनादेः' (६।१।१२६) अञ्लुप् । विदानामङ्कः वैद: 'सङ्घ- घोषा ऽङ्क - लक्षणेऽञ्यञिञ: ( ६ ३ १७२ ) इति अण्वत् विदेभ्य
=
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [266]