________________
२६२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
ऋषेरध्याये ।। ६।३।१४५ ।। [ऋषेरध्याये] ऋषि पञ्चमी ङसि । अधि 'इंफू अध्ययने (११०४) इ । अध्ययनम् = अध्यायः । 'इङोऽपादाने तु टिद् वा' (५।३।१९) घप्र० → अ । 'नामिनोऽकलि-हले:' (४।३।५१) वृद्धिः ऐ । 'एदैतोऽयाय्' (१।२।२३) आय्, तस्मिन् ।
[वासिष्ठिकोऽध्यायः] वसिष्ठस्य ग्रन्थस्य व्याख्यानस्तत्र भवो वा = वासिष्ठिकोऽध्यायः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । वसिष्ठादिसाहचर्यात् ग्रन्थोऽपि तथोच्यते ।
[वैश्वामित्रिकोऽध्यायः] विश्वं मित्रमस्य सः = विश्वामित्रः । 'ऋषौ विश्वस्य मित्रे' (३।२१७९) दीर्घः । विश्वामित्रस्य ग्रन्थस्य व्याख्यानस्तत्र भवो वा = वैश्वामित्रिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र०, अध्यायः ।।
[वासिष्ठी ऋक् ] वसिष्ठस्य ग्रन्थस्य व्याख्यानी यद्वा वसिष्ठे ग्रन्थे भवा = वासिष्ठम् । 'तस्य व्याख्याने च ग्रन्थात्' (६।३।१४२) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'अणजेयेकण्' (२।४।२०) ङी, ऋक् ।
'प्रायो बहुस्वरात्०' (६।३।१४३) इति प्रायोग्रहणात् प्रायोग्रहणस्य यादृच्छिकत्वात् अप्राप्तिकल्पनायां विध्यर्थम्, प्राप्तिकल्पनायामध्याय एवेति नियमार्थं वचनम् ॥छ।।
पुरोडाश-पौरोडाशादिकेकटौ ॥ ६।३।१४६ ।। [पुरोडाशपौरोडाशात् ] पुरोडास(श)श्च पौरोडास(श)श्च = पुरोडाशपौरोडाशम्, तस्मात् । 'एकदेशविकृतमनन्यवत्' (न्या०सं०वक्ष० (१)/सूत्र(७)) इति न्यायादेव एकोपादानेऽपि उभयोरपि सिद्धौ द्वयोरुपादानम् । एकदेशेत्यस्मानपेक्षया ।
[इकेकटौ] इकश्च इकट् च = इकेकटौ । 'प्राग् जितादण्' (६।१।१३) - ‘दोरीयः' (६।३।३२) - ‘प्रायो बहुस्वरादिकण्' (६।३।१४३) एतेषामपवादः ।
[पुरोडाशिकः, पुरोडाशिका, पुरोडाशिकी ] पुरस् 'दंशं दशने' (४९६) दंश् । पुरो दशत्यनेन = पुरोडाशः । 'भावा-ऽकोंः' (५।३।१८) घञ्प्र० → अ । 'पृषोदरादयः' (३।२।१५५) निपात्यते । पुरोडाशाः पर्पटादेः पिष्टपिण्डाः, तैः सहचरितो मन्त्रः = पुरोडाशः, तस्य व्याख्यानस्तत्र भवो वा = पुरोडाशिकः, पुरोडाशिका । अनेन इक-इकट्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अणजेयेकण' (२।४।६८) ङी ।
[पौरोडाशिकः, पौरोडाशिका, पौरोडाशिकी] पुरोडाश मण्ड्यते । पुरोडाशानामयं = पौरोडाशः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । यद्वा पुरोडाशेषु भवः = पौरोडाशः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । तस्य व्याख्यानस्तत्र भवो वा = पौरोडाशिकः, पौरोडाशिका । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'आत्' (२।४।१८) आप्प्र० → आ । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । एवम्-पौरोडाशिकी । अनेन इकटप्र० → इक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । प्रथमा सि । 'दीर्घयाब्०' (१।४।४६) सिलुक् ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[262]