________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२६३
छन्दसो यः ।। ६।३।१४७ ।। [छन्दसो यः] छन्दस् पञ्चमी ङसि । य प्रथमा सि । द्विस्वरे 'ऋगृद्-द्विस्वर-यागेभ्यः' (६।३।१४४) इत्यादिना इकणोऽपवादः ।
[छन्दस्यः] छन्दसो व्याख्यानस्तत्र भवो वा = छन्दस्यः । अनेन यप्र० ॥छ।।
शिक्षादेश्चाण ॥ ६।३।१४८ ॥
[शिक्षादेः ] शिक्षा आदिर्यस्य सः = शिक्षादिः, तस्मात् । [च] च प्रथमा सि ।
[अण्] अण् प्रथमा सि ।
[शैक्षः] 'शिक्षि विद्योपादाने' (८७९) शिक्ष् । शिक्ष्यतेऽभ्यस्यते इति शिक्षा । 'क्तेटो गुरोर्व्यञ्जनात्' (५।३।१०६) अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । शिक्षाया व्याख्यानस्तत्र भवो वा = शैक्षः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[आर्गयनः ] ऋचामयनम् = ऋगयनम्, तस्य व्याख्यान:-ऋगयने भवो वा = आर्गयनः । अनेन अण्प्र० → अ । वृद्धिः आर् । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[छान्दसः] छन्दसो व्याख्यानं-यद्वा छन्दसि भवो वा = छान्दसः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ ।
[नैयायः] न्यायस्य व्याख्यानं-यद्वा न्याये भवो वा = नैयायः । अनेन अण्प्र० → अ । 'लोकात्' (१।१।३) न् पाठउ विश्लेषियइ । 'य्वः पदान्तात् प्रागैदौत्' (७।४।५) ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वास्तुविद्यः] वास्तुविद्याया व्याख्यान:-यद्वा वास्तुविद्यायां भवो वा = वास्तुविद्यः । अनेन अण्प्र० → अ । 'अवर्णेवर्णस्य (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।।
[छन्दोभाष] भाष्यतेऽनेनेति भाषः । 'अच्' (५।११४९) अच्प्र० → अ । छन्दसां भाषः = छन्दोभाषः । [छन्दोविचिती] छन्दसो विचितिर्यस्याः सा । 'इतोऽक्त्यर्थात्' (२।४।३२) ङी । [छन्दोविजिति] छन्दसो विजिति = छन्दोविजिति । [निमित्त] निमीयते-निक्षिप्यते कारणमध्ये = निमित्त ।
[उपनिषद् ] उपनिषद्यतेऽस्याः सा ।
[प्रपञ्चः] 'पचुण विस्तारे' (१५८०) पच् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) पञ्च् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । प्रपञ्चनं = प्रपञ्चः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः (५।३।२८) अल्प्र० → अ ।
तत आगते ॥ ६।३।१४९ ॥
[ततः] तद् । तस्मात् = ततः । 'किमद्वयादिसर्वाद्य०' (७।२।८९) पित्तस्प्र० । 'आ ढेरः' (२।११४१) द० → अ० । 'लुगस्या०' (२।१।११३) अलोपः । पञ्चमी ङसि । 'अव्ययस्य' (३।२१७) ङसिलोपः ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [263]