________________
षष्ठाध्यायस्य तृतीयः पादः ॥
[ आङ्गिकम् ] अङ्गानां व्याख्यानं तत्र भवं वा = आङ्गिकम् । अनेन इकण्प्र० इक । वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
पौर्विकम् । अनेन इकण्प्र० इक । वृद्धिः औ ।
[ सौत्रिकम् ] सूत्राणां व्याख्यानं सूत्रे भवं वा = सौत्रिकम् । अनेन इकण्प्र० इक । 'वृद्धिः स्वरेष्वादेणिति०' (७१४१) वृद्धिः औ 'अवर्णेवर्णस्य' (७४६८) अलुक् । |
[ पौर्विकम् ] पूर्वाणां व्याख्यानं तत्र भवं वा 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
[ तार्किकम् ] तर्कस्य व्याख्यानं तर्के भवं वा = तार्किकम् । अनेन इकण्प्र०इक वृद्धिः स्वरे० " (७४।१) वृद्धिः आ 'अवर्णेवर्णस्य' (७४|६८) अलुक् । सि-अम् ।
—
[ नामिकम् ] नामन् । नाम्नां व्याख्यानं तत्र भवं वा = नामिकम् । अनेन इकण्प्र० इक वृद्धिः स्वरे० ' (७१४१) वृद्धिः आ । 'नोपदस्य तद्धिते' (७४/६१) अन्लुक्। सि-अम् ।
-
याग [ आग्निष्टोमिकम् ] अग्नि स्तोम । अग्नीनां स्तोमः अग्निष्टोमः 'ज्योतिरायुभ्यां च स्तोमस्य (२|३|१७) = । ' ट० अग्निष्टोमस्य व्याख्यानं अग्निष्टोमे भवं वा = आग्निष्टोमिकम् ।
अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
। । स प 'तवर्गस्य०' (१२३२६०) त०
[ राजसूबिकम् ] राजन् राजा सूयते = राजसूयम् । व्याख्यानं राजसूये भवं वा सि-अम् ।
२६१
षूङौच् प्राणिप्रसवे' (१२४२ ) षू षः सोऽष्ट्यैष्ठिव-ष्वष्कः (२२३१९८ ) सू । 'संचाय्य - कुण्डपाय्य राजसूयं क्रतौ' (५/११२२) राजसूयं निपात्यते । राजसूयस्य राजसूयिकम् । अनेन इकण्प्र० इक । वृद्धि: । 'अवर्णेवर्णस्य' (७|४।६८) अलुक् ।
[ वाजपेयिकम् ] वाजं - यज्ञान्नं पेयं यस्य सः = वाजपेयः । वाजपेये भवं = वाजपेयिकम् । अनेन इकण्प्र० → इक । वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् ।
।
[ पाकयज्ञिकम् ] पाकप्रधानो यज्ञः पाकयज्ञः पाकयज्ञस्य व्याख्यानं पाकयज्ञे भवं वा पाकयज्ञिकम् । अनेन इकण्प्र० इक वृद्धिः 'अवर्णेवर्णस्य' (७|४|६८) अलुक् सि-अम् ।
[ नावयज्ञिकम् ] नवन् यज्ञ । नवानां यज्ञानां समाहारः नवयज्ञम् । नवयज्ञस्य व्याख्यानं तत्र भवं वा = नावयज्ञिकम् । यद्वा नवसु यज्ञेषु भव: । 'भवे' (६।३।१२३) अण्प्र० । 'द्विगोरनपत्ये० ' ( ६।१।२४) अण्लुप् । अग्रेतनं पूर्ववत् ज्ञेयम् ।
=
=
[ पाञ्चीदनिकम् ] पञ्च ओदना यत्र यागे स पञ्चौदनः । पञ्चौदनस्य व्याख्यानं पञ्चौदने भवं वा = पाञ्चौदनिकम् । अनेन इकण्प्र० इक । 'वृद्धि: स्वरे० ' ( ७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । सि-अम् ।
[ दाशीदनिकम् ] दशा (श) न् - ओदन दशसु ओदनेषु भवः = दशौदनः । 'भवे' (६३।१२३) अण्प्र० 'द्विगोरनपत्ये०' (६।१।२४) अण्लुप् । यद्वा दश ओदना यत्र यागे सः = दशौदनः । दशौदनस्य व्याख्यानं दशौदने भवं वा = दाशौदनिकम् । अनेन इकण्प्र० इक 'वृद्धिः स्वरे०' (७४१) वृद्धिः आ । 'अवर्णैवर्णस्य' (७२४।६८) अलुक् सि अम् ॥छ
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [261]