________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२५५
[पाञ्चजन्यः] पञ्चजने भवः = पाञ्चजन्यः । अनेन ज्यप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अनयोः संज्ञाविवक्षणात् द्विगुत्वाभावे लुब्भावः ।
[बाह्यः ] बहिस् । बहिर्भवः = बाह्यः । अनेन ज्यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'प्रायोऽव्ययस्य' (७/४/६५) इस्लुक् ।
[दैव्यः] देवे भवः = दैव्यः । अनेन ब्यप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[गाम्भीरः] गम्भीरे जातः = गाम्भीरः । 'जाते' (६।३।९८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[पाञ्चजनः ] पञ्चजने जातः = पाञ्चजनः । 'जाते' (६।३।९८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[पञ्चजनः ] पञ्चसु जनेषु जातः = पञ्चजनः । रथकारपञ्चमस्य चातुर्वर्णस्य पञ्चजनस्येति संज्ञेयम् । 'जाते' (६।३।९८) अण्प्र० → अ । 'द्विगोरनपत्ये०' (६।१।२४) अण्लुप् ।
[बाहीकः] बहिस् । बहिर्जातः = बाहीकः । 'बहिषष्टीकण् च' (६।१।१६) टीकण्प्र० → ईक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'प्रायोऽव्ययस्य' (७/४/६५) इस्लुक् ।
दैवः ] देवादागतः = दैवः । 'देवाद् यञ् च' (६।१।२१) अप्र० , अ । 'वद्धिः स्वरेष्वादेणिति०' (७1५19) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[बाहीकः] बहिस् । बहिर्भवः = बाहीकः । मतान्तरे 'बहिषष्टीकण च' (६।१।१६) टीकण्प्र० → ईक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'प्रायोऽव्ययस्य' (७४।६५) इस्लुप् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
परिमुखादेरव्ययीभावात् ॥ ६।३।१३६ ॥
[ परिमुखादेः] परिमुख(खं) आदिर्यस्य सः = परिमुखादिः, तस्मात् ।
[अव्ययीभावात् ] अव्ययीभाव पञ्चमी ङसि । इंण्क् गतौ (१०७५) इ, न-विपूर्व० । वर्त० तिव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'इवर्णादेरस्वे०' (१।२।२१) यत्वम् । न क्षयं यातीत्यव्ययम् । 'अच्' (५।१।४९) अच्प्र० → अ । 'एदैतोऽयाय्' (१।२।२३) अय् । 'नञत्' (३।२।१२५) न० → अ० । अग्रे 'भू सत्तायाम्' (१) भू । अनव्ययोऽव्ययो भवतीति अव्ययीभावः । 'वा ज्वलादि-दु-नी-भू-ग्रहा-ऽऽस्रोर्णः' (५।१।६२) णप्र० → अ । 'नामिनोऽकलि-हले:' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'कृ-भ्वस्तिभ्यां०' (७।२।१२६) विप्र० । 'ईश्च्वाववर्णस्या०' (४।३।१११) अ० → ई० । 'अप्रयोगीत्' (१।१।३७) विलुक्, तस्मात् = अव्ययीभावात् ।
[पारिमुख्यः] परितः = सर्वतो मुखं = परिमुखम् । अत एव वचनादव्ययीभावः-वर्जनार्थो वा परि । मुखात् परि = परिमुखम् । 'पर्यपा-ऽऽङ्-बहिरच् पञ्चम्या' (३।११३२) इत्यादिना अव्ययीभावः । परिमुखे भवः = पारिमुख्यः । अनेन ज्यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[पारिहनव्यः] हनोः परि = परिहनुः । परिहनौ भवः = पारिहनव्यः । अनेन ज्यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [255]