________________
२५४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[आस्तेयम् ] अस्ति धने विद्यमाने वा भवम् = आस्तेयम् । अथवा असृज्-असृजि भवमास्तेयम् । उभयवाक्ये अनेन एयणप्र० → एय-असृजशब्दस्य अस्त्यादेशश्च । 'अवर्णवर्णस्य' (७/४/६८) इलुक् । सि-अम् ॥छ।।
ग्रीवातोऽण् च ॥ ६।३।१३२ ॥ [ग्रीवातः ] ग्रीवा । ग्रीवायां = ग्रीवातः । 'अहीय-रुहोऽपादाने' (७।२।८८) तसुप्र० → तस् । प्रथमा सि । 'अव्ययस्य' (३२७) सिलुप् ।
[अण्] अण् प्रथमा सि । [च] च प्रथमा सि । 'दिगादि-देहांशाद् यः' (६।३।१२४) इत्यादिना यस्य स अपवादः ।
[ग्रैवम्, ग्रैवेयम् ] ग्रीवा । ग्रीवासु भवं = ग्रैवम्, ग्रैवेयम् । अनेन अण्प्र० → अ । एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । सि-अम् ।
ग्रीवाशब्दो यदा शिरोधमनीवचनस्तदा तासां बहुत्वाद्बहुवचनम् । ग्रीवासु इति बहुत्वे एव प्रत्ययः, नैकत्वे अनभिधानात् । अतः पाणिनीयसूत्रे ग्रीवाभ्य एव इति बहुवचनान्त उपात्तः ग्रीवाशब्दः ॥छ।।
चतुर्मासान्नाम्नि ॥ ६।३।१३३ ॥ [ चतुर्मासात् ] चतुर्मास पञ्चमी ङसि । [नाम्नि ] नामन् सप्तमी ङि । 'ई-ङौ वा' (२।१।१०९) अलुक् ।
[चातुर्मासी] चतुर्पु मासेषु भवा = चातुर्मासी । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ड्यां लुक्' (२।४।८६) अलुक् । आषाढी कार्तिकी फाल्गुनी च पौर्णमासी भण्यते । 'संख्या समाहारे च द्विगुश्चाऽनाम्न्यम्' (३।१।९९) इत्यादिना द्विगुः समासः । अत्र 'द्विगोरनपत्ये०' (६।१।२४) इत्यादिना प्रत्ययस्य लुब् भवति ।
[चतुर्मासः] चतुर्षु मासेषु भवः = चतुर्मासः । 'वर्षा-कालेभ्यः' (६।३।८०) इकण्प्र० । 'द्विगोरनपत्ये०' (६।१।२४) लुप् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ॥छ।।
यज्ञे ज्यः ।। ६।३।१३४ ॥ [यज्ञे] यज्ञ सप्तमी ङि ।
[ज्यः] ञ्य प्रथमा सि ।
[चातुर्मास्यानि यज्ञकर्माणि ] चतुर्षु मासेषु भवानि = चातुर्मास्यानि । अनेन ज्यप्र० → य । ‘वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः । यज्ञरूपाणि कर्माणि = यज्ञकर्माणि ॥छ।।
गम्भीर-पञ्चजन-बहिर्देवात् ॥ ६।३।१३५ ।। [गम्भीरपञ्चजनबहिर्देवात् ] गम्भीरश्च पञ्चजनश्च बहिश्च दि(दे)वश्च = गम्भीरपञ्चजनबहिर्देवम्, तस्मात् ।
[ गाम्भीर्यः ] गम्भीरे भवः = गाम्भीर्यः । अनेन ज्यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[254]