________________
२५६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[पार्योष्ठ्यः] ओष्ठात् परि = पर्योष्ठः । पर्योष्ठे भवः = पार्योष्ठ्यः । अनेन ज्यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'विभक्ति-समीप०' (३।१।३९) इत्यादिना अव्ययीभावः समासः सर्वेषु उदाहरणेषु ।
[औपकूलम् ] कूलस्य समीपम् = उपकूलम् । उपकूले भवम् = औपकूलम् । [औपमूलम् ] मूलस्य समीपम् = उपमूलम् । उपमूले भवम् = औपमूलम् । [औपशाखम् ] शाखाया: समीपम् = उपशाखम् । ‘क्लीबे' (२।४।९७) ह्रस्वः । उपशाखे भवम् = औपशाखम् । [औपकुम्भम् ] कुम्भस्य समीपम् = उपकुम्भम् । उपकुम्भे भवम् = औपकुम्भम् ।
[औपखलम् ] खलस्य समीपम् = उपखलम् । उपखले भवम् = औपखलम् । सर्वत्र ‘भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् ।।
[आनुकुम्भम् ] कुम्भस्य अनु-पश्चात्-समीपं वा = अनुकुम्भम् । अनुकुम्भे भवम् = आनुकुम्भम् । [आनुकूलम् ] कूलस्य अनु-पश्चात्-समीपं वा = अनुकूलम् । अनुकूले भवम् = आनुकूलम् ।
[आनुखलम् ] खलस्य अनु-पश्चात्-समीपं वा = अनुखलम् । अनुखले भवम् = आनुखलम् । सर्वत्र 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[पारिमुखः] परिग्लानो मुखाय = परिमुखः । 'प्रात्यव-परि-निरादयो गत-क्रान्त-क्रुष्ट-ग्लान-क्रान्ताद्यर्थाः प्रथमाद्यन्तैः' (३।१।४७) इत्यादिना समासः । परिमुखे भवः = पारिमुखः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[अनुवंश्यः] वंशस्य अनु-पश्चात् = अनुवंशः । अनुवंशे भवः = अनुवंश्यः । 'दिगादि-देहांशाद् यः' (६।३।१२४) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
कण् ॥ ६३।१३७ ॥ [अन्तःपूर्वात् ] अन्तः पूर्वपदं यस्य सः = अन्तःपूर्वः । 'ते लुग्वा' (३।२।१०८) पदलुक्, तस्मात् । [इकण्] इकण् प्रथमा सि ।
[आन्तरगारिकः] अन्तर् । अगारस्यान्तः = अन्तरगारम् । 'पारे-मध्ये-ऽग्रे-ऽन्तः षष्ठ्या वा' (३।१।३०) अव्ययीभावः समासः । अन्तरगारे भवः = आन्तरगारिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[आन्तर्गेहिकः] गेहस्य अन्तः = अन्तर्गेहम् । अन्तर्गेहं अन्तर्गेहे वा भवः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[आन्तर्वेश्मिकः] अन्तर्-वेश्मन् । वेश्मनोऽन्तः = अन्तर्वेश्म । 'नपुंसकाद् वा' (७।३।८९) अत्समासान्तः । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । अन्तर्वेश्मं भवः - अन्तर्वेश्म वा भवः = आन्तर्वेश्मिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[आन्तरगारम् ] अन्तर्गतमगारस्य = अन्तरगारम् । बाहुलकात् 'प्रात्यव-परि-निरादयो०' (३।११४७) इति समासः । अन्तःस्थं वा अगारम् = अन्तरगारम् । 'विशेषणं विशेष्येणैकार्थं कर्मधारयश्च' (३।१२९६) इत्यादिना समासः । अन्तरगारे
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [256]