________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२४९
[ग्रैष्मकं, ग्रैष्मं सस्यम् ] ग्रीष्मे उप्तं = ग्रैष्मकम् । अनेन वा अकप्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । एवम्-ग्रैष्मम् । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । सि-अम् । सस्यम् ।
[वासन्तकं, वासन्तं सस्यम्] वसन्ते उप्तं = वासन्तकम् । अनेन अकप्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । एवम्-वासन्तम् । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् । सस्यम् ॥छ।।
व्याहरति मृगे || ६।३।१२१ ॥ [व्याहरति] व्याहरत् सप्तमी ङि ।
[मृगे] मृग सप्तमी ङि । 'मृगण अन्वेषणे' (१९३०) मृग । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । मृग्यते = मृगः । 'युवर्ण-वृ-दृ०' (५।३।२८) अल्प्र० → अ, तस्मिन् ।
[ नैशिको नैशो वा शृगालः ] निशा । निशायां व्याहरति = नैशिकः । 'निशा-प्रदोषात्' (६।३।८३) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । एवम्-नैशः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७/४/६८) आलुक् । शृगालः ।
[प्रादोषिकः, प्रादोषो वा शृगालः] प्रदोष । प्रदोषे व्याहरति = प्रादोषिकः । 'निशा-प्रदोषात्' (६।३।८३) इकण्प्र० → इक - विकल्पेन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । एवम्-प्रादोषः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । शृगालः ॥छ।।
जयिनि च ॥ ६।३।१२२ ॥ [जयिनि] जयः-प्रसहनमभ्यासः, सोऽस्यास्तीति जयी । 'अतोऽनेकस्वरात्' (७२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्, तस्मिन् ।
[च] च प्रथमा सि ।
[नैशिकः, नैशः] निशासहचरितमध्ययनं = निशा, तत्र जयी साभ्यासः = नैशिकः । 'निशा-प्रदोषात्' (६।३।८३) इकण्प्र० → इक । एवम्-नैशः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[प्रादोषिकः, प्रादोषः] प्रदोषसहचरितमध्ययनं = प्रदोषस्तत्र जयी साभ्यासः = प्रादोषिकः । 'निशा-प्रदोषात्' (६।३।८३) इकण्प्र० → इक । एवम्-प्रादोषः । 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वासन्तः] वसन्तसहचरितमध्ययनं = वसन्तस्तत्र जयी = वासन्तः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अणप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वार्षिकः] वर्षा । वर्षासु भवः = वार्षिकः । 'वर्षा-कालेभ्यः' (६।३।८०) इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [249]