________________
२५०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
भवे ॥ ६।३।१२३ ॥
भव।
[भवे ] 'भू सत्तायाम्' (१) भू । भवनं = भवः । 'अच्' (५।१।४९) अच्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव्, तस्मिन् ।
सत्ता भवत्यर्थो गृह्यते, न जन्म, जात इत्यनेन गतार्थत्वात् ।
[स्रौनः ] स्रुघ्ने भवः = स्रौघ्नः । 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[माथुरः] मथुरायां भवः = माथुरः । 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[औत्सः] उत्से भवः = औत्सः । 'उत्सादेरञ्' (६।१।१९) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[नादेयः] नद्यां भवः = नादेयः । 'नद्यादेरेयण' (६।३।२) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् ।
[राष्ट्रियः] राष्ट्रे भवः = राष्ट्रियः । 'राष्ट्रादियः' (६।३।३) इयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[पारावारीणः] अवारस्य पारं = पारावारम् । पारावारे भवः = पारावारीणः । 'पारावारादीनः' (६।३।६) ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[ग्राम्यः] ग्रामे भवः = ग्राम्यः । 'ग्रामादीनञ् च' (६।३।९) यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[ग्रामीणः] ग्रामे भवः = ग्रामीणः । 'ग्रामादीनञ् च' (६।३।९) ईनप्र० → ईन । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'र-वर्णान्नो ण०' (२।३।६३) न० → णत्वम् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
दिगादि-देहांशाद् यः ॥ ६।३।१२४ ॥ [दिगादिदेहांशात् ] दिग् आदिर्यस्याऽसौ दिगादिः । देहस्य अंशः = देहांशः । दिगादिश्च देहांशश्च = दिगादिदेहांशम्, तस्मात् ।
[यः] य प्रथमा सि । [दिश्यः] दिश् । दिशि भवः = दिश्यः । अनेन यप्र० । [वर्यः] वर्ग । वर्गे भवः = वर्ग्यः । अनेन यप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
[अप्सव्यः] अप्सु भवः = अप्सव्यः । अनेन यप्र० । 'अस्वयम्भुवोऽव्' (७।४७०) अव् । 'अपो य-योनि-मतिचरे' (३।२।२८) इत्यलुप् ।
[ मूर्द्धन्यः ] मूर्द्धन् । मूर्द्धनि भवः = मूर्धन्यः । अनेन यप्र० । 'अनोऽट्ये-ये' (७४।५१) इत्यनो लोपाभावः । [दन्त्यः ] दन्तेषु भवः = दन्त्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [कर्ण्यः1 कर्णयोर्भवः = कर्ण्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [ओष्ठयः] ओष्ठे भवः = ओष्ठ्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [250]