________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२४७
ग्रीष्मा-ऽवरसमादकञ् ॥ ६।३।११५ ।। [ग्रीष्माऽवरसमात् ] ग्रीष्मश्च अवरसमश्च(मा च) = ग्रीष्माऽवरसमम्, तस्मात् । [अकञ्] अकञ् प्रथमा सि । 'भर्त-सन्ध्यादेरण' (६।३।८९) - 'वर्षा-कालेभ्यः' (६।३।८०) अणिकणोरपवादः ।
[ग्रैष्मकम् ] ग्रीष्मे देयमृणं = ग्रैष्मकम् । अनेन अकञ्प्र० → अक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[आवरसमकम् ] अवरा चासौ समा च = अवरा(र)समा । यद्वा समाया अवरत्वमित्यवरसमम् । अवरसमायां अवरसमे वा देयमृणम् = आवरसमकम् । अनेन अकञ्प्र० → अक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अवर्णस्य लुक् ।
[आपरसमकम् ] अपरा समा = अपरसमम् । 'क्लीबे' (२।४।९७) ह्रस्वः । अपरसमे भवम् = आपरसमकम् । मतान्तरे अनेन अकप्र० → अक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ॥छ।।
संवत्सरा-ऽऽग्रहायण्या इकण् च ॥ ६।३।११६ ॥ [संवत्सराऽऽग्रहायण्याः ] संवत्सरश्च आग्रहायणी च = संवत्सराऽऽग्रहायणी, तस्याः = संवत्सराऽऽग्रहायण्याः । पञ्चमी ङसि ।
[इकण्] इकण् प्रथमा सि । [च] च प्रथमा सि ।
'संवत्सरात् फल-पर्वणोः' (६।३।९०) - 'वर्षा-कालेभ्यः' (६।३।८०) इत्याभ्यां अणिकणोरपवादः । 'कालाद् देये ऋणे' (६।३।११३) इत्यस्य च ।।
[सांवत्सरिकम्, सांवत्सरकम् ] संवत्सरे देयं ऋणं फलं पर्व वा = सांवत्सरिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ । एवम्-सांवत्सरकम् । अनेनैव अकप्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[आग्रहायणिकम्, आग्रहायणकम्] अग्रं हायनस्य = अग्रहायणम्(णः) । 'पूर्वपदस्थान्नाम्न्यगः' (२।३।६४) न० → ण० । अग्रहायण एव = आग्रहायणी । 'प्रज्ञादिभ्योऽण्' (७।२।१६५) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । आग्रहायण्यां देयं ऋणम् = आग्रहायणिकम् । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् । एवम्-आग्रहायणकम् । अनेन अकञ्प्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । सि-अम् । वेत्यकृत्वा इकण्विधानं 'संवत्सरात् फल-पर्वणोः' (६।३।९०) इत्यण्बाधनार्थम् ॥छा।
साधु-फपुष्यत्-पच्यमाने || ६।३।११७ ॥ [साधुपुष्यत्यच्यमाने] साधुश्च पुष्यच्च पच्यमानश्च = साधुपुष्यत्पच्यमानम्, तस्मिन् ।
[ हैमनमनुलेपनम्, हैमन्तम्, हैमन्तिकम् ] हेमन्ते साधु = हैमनम्, हैमन्तम् । 'हेमन्ताद्वा तलुक् च' (६।३।९१) अण्प्र० → अ - तलुक् च विकल्पेन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । एवम्-हैमन्तिकम् । 'वर्षा-कालेभ्यः' (६।३।८०) इकणप्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 卐 हैमप्रकाशे - "पुष्प्यत्" ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [247]