________________
२४६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
कालाद् देये ऋणे ॥ ६।३।११३ ॥
[कालात् ] काल पञ्चमी ङसि । [ देये] देय सप्तमी ङि । [ऋणे ] ऋण सप्तमी ङि ।
[मासिकम् ] मासे देयमृणं = मासिकम् । 'वर्षा-कालेभ्यः' (६।३।८०) इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[आर्द्धमासिकम् ] अर्द्धमासे देयमृणम् = आर्द्धमासिकम् । 'वर्षा-कालेभ्यः' (६।३।८०) इकण्प्र० → इक । वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
[सांवत्सरिकमृणम् ] संवत्सरे देयमृणं = सांवत्सरिकमृणम् । 'वर्षा-कालेभ्यः' (६।३।८०) इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । मासादिके गते देयमित्यर्थः ।
[स्वस्तिवाचनम् ] स्वस्ति 'वचंक भाषणे' (१०९६) वच् । वचन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । वाच्यते = वचनम् । 'नन्द्यादिभ्योऽनः' (५।१५२) अनप्र० । यौजादिकः 'वचण(परि)भाषणे' (१९५३) वच । 'चुरादिभ्यो णिच् (३।४।१७) णिचप्र० । 'अतः' (४।३।८२) अलोपः । वच्यते = वचनम् । 'नन्द्यादिभ्योऽनः' (५।११५२) अनप्र० । 'णेरनिटि' (४।३।८३) णिलुक् । स्वस्ति वाचनं = स्वस्तिवाचनम् ॥छ।।
कलाप्यश्वत्थ-यवबुसोमाव्यासैषमसोऽकः ॥ ६।३।११४ ॥ __ [कलाप्यश्वत्थयवबुसोमाव्यासैषमसः] कलापी च अश्वत्थश्च यवबुसश्च उमाव्यासश्च ऐषमस् च = कलाप्यश्वत्थयवबुसोमाव्यासैषमस्, तस्मात् ।
[अकः] अक प्रथमा सि ।
[कलापकम् ] यस्मिन् काले मयूराः केदाराः इक्षवः कलापिनो भवन्ति स कालस्तत्साहचर्यात् कलापी, तत्र देयमृणं = कलापकम् । अनेन अकप्र० । 'कलापि-कुथुमि-तैतलि-जाजलि-लाङ्गलि-शिखण्डि-शिलालि-सब्रह्मचारिपीठसर्पि-सूकरसद्म-सुपर्वणः' (७४/६२) इत्यादिना, 'नोऽपदस्य तद्धिते' (७४।६१) इति वा अन्त्यस्वरादिलोपः ।
[अश्वत्थकम् ] यस्मिन् कालेऽश्वत्थाः फलन्ति स कालोऽश्वत्थफलसहचरितोऽश्वत्थः, तत्र देयमृणमश्वत्थकम् । अनेन अकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[यवबुसकम् ] यस्मिन् काले यवानां बुसं भवति स कालो यवबुसम्, तत्र देयमृणं = यवबुसकम् । अनेन अकप्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[उमाव्यासकम् ] उमा-अतसीनाम्ना(म) वृक्षः । 'असूच क्षेपणे' (१२२१) अस्, विपूर्व० । व्यस्यन्ते-विक्षिप्यन्ते यस्मिन् स काल उमाव्यासः । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । तत्र देयमृणमुमाव्यासकम् । अनेन अकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[ऐषमकम् ] ऐषमोऽस्मिन् संवच्छरे देयमृणमैषमकम् । अनेन अकप्र० । 'प्रायोऽव्ययस्य' (७/४/६५) अस्लोपः । 'ऐषमो-ह्यः-श्वसो वा' (६।३।१९) त्यच्, 'सायं-चिरं-प्राणे०' (६।३।८८) तनटोः प्राप्तौ अयं अकप्र० । सि-अम् ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [246]