________________
षष्ठाध्यायस्य तृतीयः पादः ॥
स्थानान्त- गोशाल- खरशालात् || ६|३|११० ॥
[ स्थानान्तगोशालखरशालात् ] स्थानशब्दोऽन्ते यस्य सः = स्थानान्तः । स्थानान्तश्च गोशालश्च खरशालश्च = स्थानान्तगोशालखरशालम्, तस्मात् ।
[ गोस्थान: ] गो 'ष्ठां गतिनिवृत्तौ ' ( ५ ) ष्ठा । 'षः सोऽष्ट्यै० ' (२।३।९८) स्था । 'निमित्ताभावे नैमित्तिकस्याप्यभावः ' (न्या० सं०] वक्ष० (१) सूत्र (२९)) स्था । स्थीयतेऽस्मिन्निति स्थानम् । अनट्प्र० अन 'ओदौतोऽवाव्' (११२ २४) अव् । गवां स्थानं = गोस्थानम् । 'गोस्थाने जातः = गोस्थान: । 'जाते' (६।३।९८) अण्प्र० । अनेन लुप् ।
२४५
[ अश्वस्थानः] अश्वानां स्थानमश्वस्थानम् । अश्वस्थाने जातोऽश्वस्थानः । 'जाते' (६।३।९८) अण्प्र० । अनेन लुप् । [ गोशाल: ] गवां शाला = गोशालम् । 'क्लीबे' ( २/४/९७) ह्रस्वः । गोशाले जातः = गोशाल: । 'जाते' (६।३।९८) अण्प्र० । अनेन लुप् ।
[ खरशालः ] खराणां शाला = खरशालम् । 'क्लीबे' (२।४।९७) ह्रस्वः । खरशाले जातः = खरशालः । 'जाते' (६३।९८) अणूप्र० । अनेन लुप् ।
नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात्
[ गोस्थानः ] स्थीयतेऽस्यामिति स्थानी । ' करणा-ऽऽधारे' (५।३।१२९) अनट्प्र० दीर्घः । 'अणवेवेकण्०' (२।४।२० ) ङी । गवां स्थानी गोस्थानी गोस्थान्यां जातः = । अण्प्र० । अनेन लुप् । 'यादेर्गौणस्या०' (२२४।९५ ) ङीनिवृत्तिः
।
=
अन । 'समानानां०' (१।२1१) गोस्थान: । 'जाते' (६।३।९८) प्रथमा सि । सो रु' (२११७२) स०र० ।
=
[ गोशाल: ] गवां शाला गोशाला। गोशालायां जातः = । गोशाल: । 'जाते' (६।३।९८) अणुप्र० । अनेन लुप् । 'यादेर्गौण०' (२२४९५) आपूनिवृत्तिः । प्रथमा सि 'सो रु' (२२११७२) स०र० ।
[ खरशालः ] खराणां शाला = खरशाला । खरशालायां जातः = खरशाल: । 'जाते' (६।३।९८) अण्प्र० । अनेन लुप् । 'यादेगण०' (२२४९५) आपनिवृत्तिः । प्रथमा सि सो रु' (२२१७२) स० २० ॥
I
वत्सशालाद्वा ॥ ६।३।१११ ॥
[ वत्सशालात्] वत्सशाल पञ्चमी इसि । [ वा ] वा प्रथमा सि ।
[ वत्सशालः, वात्सशाल: ] वत्सानां शाला= वत्सशालम् । 'क्लीवे' (२२४।९७) ह्रस्वः । लिङ्गानुशासने- "सेनाशाला-सुराच्छाया-निशा वोर्णा शशात्परा । भाद्गणो गृहतः स्थूणा, संख्यादन्ता शतादिका" ॥१२॥ क्लीबत्वस्य विधानात् स्त्री-क्लीबः शब्दः इत्युक्तं लिङ्गानुशासने । वत्सशाले जातः = वत्सशाल:, वात्सशाल: । 'जाते' (६।३।९८) अण्प्र० → अ । अनेन अण् वा लुप् । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । 'सो रुः' (२|१|७२) स०र० ॥छ||
सोदर्य-समानोदय ॥ ६।३।११२ ॥
[ सोदर्यसमानोदय ] सोदर्यश्च समानोदर्यश्च = सोदर्यसमानोदर्यौ ।
[ सोदर्यः, समानोदर्यो भ्राता ] समानोदरे जातः = सोदर्यः । अनेन यप्र० । अत एव निर्देशात् समानस्य सः । 'अवर्णेवर्णस्य' (७४६८) अलुक् । अनेन समानोदर्य निपात्यते ततो निपातनादेव च जातार्थमात्रत्वेऽपि भ्रातरक्ष भगिन्यश्चेत्येकशेषः । भ्रातृष्वेवाभिधानं न कृमिमलादिषु नाम्नीत्यधिकाराद्वा ॥ छ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [245]