________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२४१
'मावर्णान्तो०' (२।१।९४) म० → व० । इमा श्रववत्यः, इमा श्रववत्यः, इमा आसां मध्ये प्रकृष्टाः श्रववत्यः = श्रविष्ठाः । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) इष्ठप्र० । 'जातिश्च णि०' (३।२।५१) पुंवत् । 'विन्-मतोर्णीष्ठेयसौ लुप्' (७४।३२) मत् - लुप् । 'त्रन्त्यस्वरादेः' (७।४।४३) अन्त्यस्वरलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । श्रविष्ठाः - धनिष्ठाः ताभिश्चन्द्रयुक्ताभिर्युक्तः कालोऽपि = श्रविष्ठाः । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । 'ङ्यादेौण०' (२।४।९५) आप्निवृत्तौ पुनरेव आप् । श्रविष्ठासु जातः = श्राविष्ठीयः । अनेन ईयणप्र० → ईय । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । एवम्-श्रविष्ठः । अनेनैव अप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[आषाढीयः, अषाढः ] 'षहि मर्षणे' (९९०) षह् । न सहते = अषाढा । 'नञः सहे: षा च' (उणा० १८१) अषाढनिपात्यते । 'आत्' (२।४।१८) आप्प्र० → आ । अषाढानक्षत्रमेकद्वित्रितारकं च मन्यन्ते । अषाढायामषाढयोरषाढासु वा जातः = आषाढीयः । अनेन ईयणप्र० → ईय । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । एवम्अषाढः । अनेनैव अप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[श्राविष्ठः ] श्रविष्ठासु जातः = श्राविष्ठः । 'भर्तु-सन्ध्यादेरण' (६।२।८९) अण्प्र० → अ । वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) आलुक् ।।
[आषाढः] अषाढासु जातः = आषाढः । 'भर्तु-सन्ध्यादेरण' (६।२।८९) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ॥छ।।
फल्गुन्याष्टः ।। ६।३।१०६ ॥ [फल्गुन्याः] फल्गुनी पञ्चमी ङसि । 'स्त्रीदूतः' (१।४।२९) ङसि० → दास्० → आस् । [टः] ट प्रथमा सि ।
[फल्गुनः, फल्गुनी स्त्री] फल्गुनीभिश्चन्द्रयुक्ताभिर्युक्तः कालोऽपि = फल्गुन्यौ । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप । 'ङ्यादेhणस्या०' (२।४।९५) ङीनिवृत्तौ पुनः 'गौरादिभ्यो मुख्यान्डी:' (२।४।१९) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । फल्गुन्योर्जातः = फल्गुनः । अनेन टप्र० → अ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् । एवम्-फल्गुनी । अनेनैव टप्र० । ङी । 'अस्य यां लुक्' (२।४।८६) अलुक ।।
[फाल्गुनः] फल्गुन्योर्जातः = फाल्गुनः । मतान्तरे 'जाते' (६।३।९८) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) ईलुक् । टकारो ङ्यर्थः ॥छ।।
बहुला-ऽनुराधा-पुष्यार्थ-पुनर्वसु-हस्त-विशाखा-स्वातेल्प् ॥ ६।३।१०७ ।। [बहुलाऽनुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वातेः ] बहुला च अनुराधा च पुष्यार्थश्च पुनर्वसुश्च हस्तश्च विशाखा च स्वातिश्च = बहुलाऽनुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वाति, तस्मात् ।
[लुप्] लुप् प्रथमा सि ।
[बहुलः] "मघा-अप-कृत्तिका बहौ" इत्यर्थप्राधान्याद् बहुलाशब्दोऽपि स्त्री-बहुवचनान्तश्च लिङ्गानुशासने उक्तमेतत् । बहुलाः कृत्तिकाः ताभिश्चन्द्रयुक्ताभिर्युक्तः कालोऽपि = बहुलाः । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । "लुप् त्वप्रयुक्ते" अण्लुप् । बहुलासु जातः = बहुल: । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० । अनेन लुप् । 'झ्यादेर्गौणस्या०' (२।४।९५) आप्निवृत्तिः । 卐 लिङ्गानुशासने श्लोकाङ्कः ॥९॥
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [241]