________________
२४०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[खट्वाका, खट्वका, खट्विका] कुत्सिता खट्वा = खट्वाका, खट्वका, खट्विका । 'कुत्सिता-ऽल्पाऽज्ञाते' (७।३।३३) कप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । 'इच्चाऽपुंसोऽनित्क्याप्परे' (२।४।१०७) इत्वं-हस्वत्वं विकल्पनात् ॥छ।।
पथः पन्थ च ।। ६।३।१०३ ॥ [पथः] पथिन् पञ्चमी ङसि । 'इन् ङी-स्वरे लुक्' (१।४।७९) इन्लुक् । [पन्थ ] पन्थ प्रथमा सि । सूत्रत्वाल्लुप् । [च] च प्रथमा सि ।
[पन्थकः ] पथिन् । पथि जातः = पन्थकः । अनेन अकप्र० - पथिन्शब्दस्य पन्थादेशश्च । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
अश्च वाऽमावास्यायाः ॥ ६।३।१०४ ॥ [अश्च] अ प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । च प्रथमा सि । 'च-ट-ते.' (१।३।७) र० → श० । [वा ] वा प्रथमा सि ।
[अमावास्यायाः] अमावास्या पञ्चमी ङसि । 'आपो ङितां यै-यास्-यास्-याम्' (१।४।१७) यास्देशः । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ।
[अमावास्यः, अमावास्यकः, आमावास्यः] अमा 'वसं निवासे' (९९९) वस् । अमा सह वसतोऽस्यां चन्द्रार्काविति अमावास्या । 'वाऽऽधारेऽमावस्या' (५।१।२१) घ्यणप्र० → य - विकल्पेन ह्रस्वत्वं च । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'आत्' (२।४।१८) आप्प० । अमावास्यायां जातः = अमावास्यः, अमावास्यकः । अनेन अअकप्र० । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । एवम् - आमावास्यः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
एकदेशविकृतस्याऽनन्यत्वादमावस्याशब्दादपि भवति
[अमावस्यः, अमावस्यकः, आमावस्यः] अमावस्यायां जातः = अमावस्यः, अमावस्यकः । अनेन अ-अकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । एवम् - आमावस्यः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[आमावास्यः ] अमावास्यायां जातः = आमावास्यः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'वृद्धि: स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ॥छ।।
श्रविष्ठा-ऽषाढादीयण च ॥ ६।३।१०५ ॥ [श्रविष्ठाऽषाढात्] श्रविष्ठा च आ(अ)षाढा च = अविष्ठाऽषाढम्, तस्मात् । ‘क्लीबे' (२।४।९७) ह्रस्वः । [ईयण् ] ईयण् प्रथमा सि । [च] च प्रथमा सि ।
[श्राविष्ठीयः, श्रविष्ठः ] 'श्रृंट श्रवणे' (१२९६) श्रु । श्रवणं = श्रवः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ। 'ओदौतोऽवाव्' (शरा२४) अव् । श्रवो विद्यते यस्यां सा = श्रववती । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७२।१) मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२) ङी ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [240]