________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२३९
[आर्द्रकः] आर्द्राभिश्च चन्द्रयुक्ताभिर्युक्तः कालोऽपि = आर्द्रा । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । "लुप् त्वप्रयुक्ते" अण्लुप् । आर्द्रायां जातः = आर्द्रकः । अनेन अकप्र० । 'अवर्णेवर्णस्य' (७४।६८) आलुक् ।
[मूलकः] मूलेन चन्द्रयुक्तेन युक्तः कालोऽपि = मूलः । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । मूले जातः = मूलकः । अनेन अकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[प्रदोषकः] प्राप्तो दोषां = प्रदोषः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । यद्वा प्रकृष्टा दोषा अत्र सः = प्रदोषः । प्र 'दुषंच् वैकृत्ये' (१२०९) दुष् । प्रदुष्यति अध्ययनादिकमत्र = प्रदोषः । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । प्रदोषे जातः = प्रदोषकः । अनेन अकप्र० । अत्र 'निशा-प्रदोषात्' (६।३।८३) इकण - औत्सर्गिकाऽणोऽपवादोऽकः ।
[अवस्करकः] अव 'कृत् विक्षेपे' (१३३४) कृ । अवकीर्यते-विक्षिप्यन्ते दिशो दिशं वायुना इति अवस्करः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'पृषोदरादयः' (३।२।१५५) सागमः । अवस्करे जातः = अवस्करकः । अनेन अकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[पौर्वाणिकम् ] पूर्वाह्ण भवं = पौर्वाणिकम् । 'वर्षा-कालेभ्यः' (६।३।८०) इकण्प्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[ पूर्वाह्णतनम् ] पूर्वाह्ण भवं = पूर्वाह्णतनम् । 'पूर्वाणा-ऽपराह्णात् तनट्' (६।३।८७) तनट्प्र० → तन ।
सि-अम् ।
[आपराणिकम् ] अपराणे भवम् = आपराणिकम् । 'वर्षा-कालेभ्यः' (६।३।८०) इकण्प्र० → इक । वृद्धि: आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । सि-अम् । _[अपराह्णतनम् ] अपराह्ण भवम् = अपराह्णतनम् । 'पूर्वाह्णा-ऽपराह्णात् तनट्' (६।३।८०) तनटप्र० → तन । सि-अम् ।
[आर्द्रम् ] आर्द्रायां जातः = आर्द्रः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । सि-अम् ।
[मौलम् ] मूले जातः = मौलः । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धि: औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[ प्रादोषिकम्, प्रादोषम् ] प्रदोषे भवं = प्रादोषिकम् । 'निशा-प्रदोषात्' (६।३।८३) इकणप्र० → इक । वृद्धि: आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् । एवम्-प्रादोषम् । 'भर्तु-सन्ध्यादेरण' (६।३।८९) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[आवस्करम् ] अवस्करे जातम् = आवस्करम् । 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[आर्द्रिका ] केनैव सिद्धेऽकविधानमार्द्रिका इत्येवमर्थम् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्तत्०' (२।४।१११) इ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [239]