________________
२३६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[पारावारीणः] अवारस्य समुद्रस्य पारः = पारावारः । पारावारे कृतो लब्धः क्रीतः सम्भूतो वा = पारावारीणः । 'पारावारादीनः' (६।३।६) ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'र-घुवर्णान्नो ण०' (२।३।६३) न० → ण० ।
[शयने शेते ] 'शीफू स्वप्ने' (११०५) शी । शय्यतेऽस्मिन्निति शयनम् । 'करणा-ऽऽधारे' (५।३।१२९) अनटप्र० → अन । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय्, तस्मिन् ॥छ।।
कुशले ॥ ६।३।९५ ॥ [कुशले ] कुशल सप्तमी ङि ।
[सौनः] स्रुघ्ने कुशलः = स्रौघ्नः । 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[माथुरः] मथुरायां कुशलः = माथुरः । 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[नादेयः] नद्यां तरणे कुशलः = नादेयः । 'नद्यादेरेयण' (६।३।२) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् । [राष्ट्रियः] राष्ट्रे कुशलः = राष्ट्रियः । 'राष्ट्रादियः' (६।३।३) इयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ॥छ।
पथोऽकः ॥ ६।३।९६ ॥ [पथः] पथिन् पञ्चमी ङसि । 'इन् ङी-स्वरे लुक् (१।४।७९) इन्लुक् । [अकः] अक प्रथमा सि । [पथकः] पथिन् । पथि कुशलः = पथकः । अनेन अकप्र० । 'नोऽपदस्य तद्धिते' (७४।६१) इन्लुक् ॥छ।।
कोऽश्मादेः ॥ ६।३।९७ ॥
[कः] क प्रथमा सि । [अश्मादेः ] अश्म आदिर्यस्य सः = अश्मादिः, तस्मात् । [अश्मकः] अश्मनि कुशलः = अश्मकः । अनेन कप्र० । [अशनिकः] अशनौ-वज्रे कुशलः = अशनिकः । अनेन कप्र० । [आकर्षकः] आकर्षः-कुतुपादिः, तत्र कुशलः = आकर्षकः । अनेन कप्र० ॥छ।।
जाते ॥ ६।३।९८ ॥ [जाते] 'जनैचि प्रादुर्भावे' (१२६५) जन् । जायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'आः खनि-सनि-जनः' (४।२।६०) न० → आ० । 'समानानां तेन०' (१।२।१) दीर्घः, तस्मिन् ।
[स्त्रौघ्नः ] स्रुघ्ने जातः = स्रौघ्नः । 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[माथुरः] मथुरायां जातः = माथुरः । 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[236]