________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२३७
[औत्सः] उत्से जातः = औत्सः । "उत्सादेरञ्' (६।१।१९) अप्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[औदपानः ] उदपाने जातः = औदपानः । 'उत्सादेरञ्' (६।१।१९) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[बाह्यः, बाहीकः] बहिर्जातः = बाह्यः, बाहीकः । 'बहिषष्टीकण च' (६।१।१६) ज्यप्र० → य, टीकण्प्र० → ईक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'प्रायोऽव्ययस्य' (७/४/६५) इस्लुक् । __ [कालेयः ] कलि । कलौ जातः = कालेयः । 'कल्यग्नेरेयण' (६।१।१७) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् ।
[आग्नेयः] अग्नि । अग्नौ जातः = आग्नेयः । 'कल्यग्नेरेयण' (६।१।१७) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[स्त्रैणः ] स्त्रियां जात: = स्त्रैणः । 'प्राग्वतः स्त्री-पुंसात् नञ्-स्नञ्' (६।१।२५) । न० → न । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः ऐ।
[पौंस्नः] पुंसि जातः = पौंस्नः । 'प्राग्वतः स्त्री-पुंसात्' (६।१।२५) स्नप्र० → स्न । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः औ । 'शिड्-हेऽनुस्वारः' (१।३।४०) अनुस्वारः । ‘पदस्य' (२।१।८९) सलुक् ।
[नादेयः ] नद्यां जातः = नादेयः । 'नद्यादेरेयण' (६।३।२) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् ।
[राष्ट्रियः] राष्ट्र जातः = राष्ट्रियः । 'राष्ट्रादियः' (६।३।२) इयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[पारावारीणः] पारावारे जातः = पारावारीणः । 'पारावारादीनः' (६।३।६) ईनप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'र-घृवर्णान्नो ण०' (२।३।६२) न० → णत्वम् ।
[ग्राम्यः] ग्रामे जातः = ग्राम्यः । 'ग्रामादीनञ् च' (६।३।९) यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[ग्रामीणः ] ग्रामे जातः = ग्रामीणः । 'ग्रामादीनञ् च' (६।३।९) ईनप्र० → इन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'र-घृवर्णान्नो ण०' (२।३।६३) न० → णत्वम् ।
[कात्त्रेयकः] कुत्सिताः के वा त्रयोऽस्य सः = कत्त्रिः । 'कत्त्रिः' (३।२।१३३) इत्यनेन किमः कुशब्दस्य वा कत्रिरादेशः । कत्त्रिषु जातः = कात्त्रेयकः । 'कत्त्र्यादेश्चैयकञ्' (६।३।१०) एयकप्र० → एयक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।८) इलुक् ।। स्वयमुत्पत्तिर्जातस्यार्थ इति कृतादिभ्यो भेदः ॥छ।।
प्रावृष इकः ॥ ६।३।९९ ॥ [प्रावृषः] प्रावृष् पञ्चमी ङसि । [इकः ] इक प्रथमा सि ।
[प्रावृषिकः] प्रावृषि जातः = प्रावृषिकः । अनेन इकप्र० । प्रथमा सि । 'सो रुः' (२२१७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ॥छ।।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [237]