________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२३५
[उलाजिनः] उलः - स्वा(श्वा)पदभेदः । उलस्याजिनम् = उलाजिनम् । उलाजिने जातो भवो वा = उलाजिनः । 'जाते' (६।३।९८) अण्प्र० । 'भवे' (६।३।१२३) अण्प्र० । अनेन लुप् ।
[वृकाजिनः] वृकस्याजिनं = वृकाजिनम् । वृकाजिने जातो भवो वा = वृकाजिनः । 'जाते' (६।३।९८) अण्प्र० । 'भवे' (६।३।१२३) अण्प्र० । अनेन लुप् ।
[अश्वत्थामः] अश्वत्थाम्नोऽयम् । अश्वत्थाम्न आगतो वा = आ(अ)श्वत्थामः । 'अ: स्थाम्नः' (६।१।२२) अप्र० । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक ।
[सैंहाजिनः] सिंहस्याजिनं = सिंहाजिनम् । सिंहाजिनस्यायम् । सिंहाजिनादागतो वा = सैंहाजिनः । 'तस्येदम्' (६।३।१६०) अण्प्र० । अथवा 'तत आगते' (६।३।१४९) अण्प्र० → अ । वृद्धिः ऐ ।
[वार्काजिनः] वृकाजिनस्यायं-वृकाजिनादागतो वा = वार्काजिनः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । अथवा 'तत आगते' (६।३।१४९) अण्प्र० → अ । वृद्धिः आर् ॥छ।।
तत्र कृत-लब्ध-क्रीत-सम्भूते ।। ६।३।९४ ।। [तत्र ] तत्र पञ्चमी ङसि । सूत्रत्वाल्लुप् । [कृतलब्धक्रीतसम्भूते] कृतश्च लब्धश्च क्रीतश्च सम्भूतश्च = कृतलब्धक्रीतसम्भूतम्, तस्मिन् ।
'तद्धितोऽणादिः' (६।१।१) - 'रागाट्टो रक्ते' (६।२।१) इति च द्वयोः पादयोः 'प्राग जितादण्' (६।१।१३) इत्यादिभिर्विहिताः, शेषेऽस्मिन् पादे 'नद्यादेरेयण' (६।३।२) इत्यादिभिर्विहिता अणादय एयणादयश्च ।
यदन्येनोत्पादितं तत्कृतम् । उदकपूर्वकं दानं प्रतिग्रहः । यत् प्रतिग्रहादिना प्राप्तं तल्लब्धम् । यन्मूल्येन स्वीकृतं तत् क्रीतम् । यत् संभाव्यते घटते सम्माति वा तत् सम्भूतम् । 'ज्ञानेच्छाऽर्चाऽर्थजीच्छील्यादिभ्यः क्तः' (५।२।९२) क्तप्र० → त । सि-अम् ।
[स्त्रौघ्नः ] स्रुघ्ने कृतो लब्धः क्रीतः सम्भूतो वा = स्रौघ्नः । 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धि: औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[माथुरः] मथुरायां कृतादिः । 'प्राग जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आ ।
[औत्सः] उत्से कृतो लब्धः क्रीतः सम्भूतो वा = औत्सः । 'उत्सादेरञ्' (६।१।१९) अप्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।८) अलुक् ।
[बाह्यः, बाहीकः] बहिस् । बहिः कृतो लब्धः क्रीतः सम्भूतो वा = बाह्यः, बाहीकः । 'बहिषष्टीकण च' (६।१।१६) ज्यप्र० → य, टीकण्प्र० → ईक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'प्रायोऽव्ययस्य' (७/४/६५) इस्लुक् ।
[नादेयः] नद्यां कृतो लब्धः क्रीतः सम्भूतो वा = नादेयः । 'नद्यादेरेयण' (६।३।२) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् ।
- [राष्ट्रियः ] राष्ट्रे कृतो लब्ध: क्रीतः सम्भूतो वा = राष्ट्रियः । 'राष्ट्रादियः' (६।३।३) इयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [235]