________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२२७
[मध्यः कायः] मध्ये जातः = मध्यः । अनेन अप्र० । 'चिंग्ट् चयने' (१२९०) चि । चीयते आहारादिना इति कायः । 'चिति-देहा-ऽऽवासोपसमाधाने कश्चाऽऽदेः' (५।३।७९) घञ्प्र० → अ - च० → क० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
अध्यात्मादिभ्य इकण् ।। ६।३।७८ ॥ [अध्यात्मादिभ्यः ] आत्मनि अधि = अध्यात्मम् । 'अनः' (७।३।८८) अत्समासान्तः । 'नोऽपदस्य०' (७४/६१) अन्लोपः । अध्यात्म आदिर्येषां ते = अध्यात्मादयः, तेभ्यः = अध्यात्मादिभ्यः । पञ्चमी भ्यस् ।
[इकण्] इकण् प्रथमा सि ।
[आध्यात्मिकम् ] आत्मन्यधि = अध्यात्मम् । 'अनः' (७।३।८८) इति अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । सप्तम्यां उक्तत्वात् सिप्रत्ययस्ततो 'अमव्ययीभावस्याऽतोऽपञ्चम्याः' (३।२।२) इत्यादिना अम्देशः । अध्यात्म भवम् = आध्यात्मिकम् । अनेन इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[आधिदैविकम् ] देवेष्वधि = अधिदेवम् । अधिदेवे भवम् = आधिदैविकम् । अनेन इकण्प्र० → इक । 'अनुशतिकादीनाम्' (७।४।२७) उभयपदवृद्धिः । सि-अम् ।
[आधिभौतिकम् ] भूतेष्वधि = अधिभूतम् । तत्र भवम् = आधिभौतिकम् । अनेन इकण्प्र० → इक । 'अनुशतिकादीनाम्' (७।४।२७) उभयपदवृद्धिः । सि-अम् ।
[और्ध्वदमिकः, औवंदमिकः] ऊर्ध्वदमे भवः = और्ध्वदमिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[और्ध्वदेहिकः, औक्देहिकः] ऊर्ध्वदेहेषु भवः = और्ध्वदेहिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
अत एव पाठात् ऊर्ध्वशब्दस्य दम-देहयोर्वा मोऽन्तः । [आकस्मिकम् ] अकस्मात्-हेतुशून्यः कालः, तत्र भवम् = आकस्मिकम् । [आमुष्मिकम् ] अमुष्मिन्-परलोके भवम् = आमुष्मिकम् । [ आमुत्रिकम् ] अमुत्र-परलोके भवम् = आमुत्रिकम् । [पारत्रिकम् ] परत्र-परलोके भवं = पारत्रिकम् । [ऐहिकम्] इह भवम् = ऐहिकम् ।
[शैषिकम् ] शेषे भवं = शैषिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । पाठसामर्थ्यात् सप्तम्या अलुप् ॥छ।।
समानपूर्वलोकोत्तरपदात् ॥ ६।३।७९ ॥ [समानपूर्वलोकोत्तरपदात् ] समानः पूर्वपदं(दः) यस्य सः = समानपूर्वः । 'ते लुग्वा' (३।२।१०८) पदलुक् । लोक उत्तरपदं(दः) यस्य सः = लोकोत्तरपदः । समानपूर्वश्च लोकोत्तरपदश्च = समानपूर्वलोकोत्तरपदम्, तस्मात् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [227]