________________
२२८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[सामानग्रामिकः] समानग्रामे कृतो भवो वा = सामानग्रामिकः । अनेन इकण्प्र० → इक । वृद्धिः । [सामानदेशिकः] समानदेशे कृतो भवो वा = सामानदेशिकः । अनेन इकण्प्र० → इक । वृद्धिः ।
[ऐहलौकिकः] इहलोके कृतो भवो वा = ऐहलौकिकः । अनेन इकण्प्र० → इक । 'अनुशतिकादीनाम्' (७।४।२७) उभयपदवृद्धिः ।
[पारलौकिकः] परलोके कृतो भवो वा = पारलौकिकः । अनेन इकण्प्र० → इक । 'अनुशतिकादीनाम्' (७।४।२७) उभयपदवृद्धिः ।।
[सार्वलौकिकः] सर्वलोके कृतो भवो वा = सार्वलौकिकः । अनेन इकण्प्र० → इक । 'अनुशतिकादीनाम्' (७।४।२७) उभयपदवृद्धिः ॥छ।।
वर्षा-कालेभ्यः ।। ६।३।८० ॥ [वर्षाकालेभ्यः] वर्षा च कालश्च = ते, तेभ्यः ।
[वार्षिकः] वर्षासु भवः = वार्षिकः । अनेन इकणप्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् ।
[पूर्ववार्षिकः] पूर्वाश्च ता वर्षाश्च । 'पूर्वा-ऽपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम-वीरम्' (३।१।१०३) इति समासः । पूर्वासु वर्षासु भवः इति तद्धितविषये 'दिगधिकं संज्ञा-तद्धितोत्तरपदे' (३।१।९८) इत्यनेन वा । वर्षाणां पूर्वत्वमिति 'पूर्वा-ऽपरा-ऽधरोत्तरमभिन्ननाशिना' (३।११५२) तत्पुरुषो वा । अनेन इकणप्र० । 'अंशादृतोः' (७४/१४) इत्युत्तरपदवृद्धिः ।
विशेषविहितत्वात् परत्वाच्चानेन 'दिक्पूर्वात्०' (६।३।७१) इति बाध्यते ।
[अपरवार्षिकः] वर्षाणां अपरत्वमपरवर्षा । अपरवर्षासु भवः = अपरवार्षिकः । अनेन इकण्प्र० → इक । 'अंशादृतोः' (७।४।१४) उत्तरपदवृद्धिः ।
[मासिकः] मासे भवः = मासिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[आर्द्धमासिकः] अर्द्ध मासस्य = अर्द्धमासः । अर्द्धमासेषु भवः = आर्द्धमासिकः । अनेन इकण्प्र० → इक । वृद्धिः आ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
[सांवत्सरिकः] संवत्सरेषु भवः = सांवत्सरिकः । अनेन इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[आह्निकः] अहन् । अह्नि भवः । 'अनीना-ऽदट्योऽतः' (७४/६६) अकारो लुक् । अह्वेषु भवः = आह्निकः । अनेन इकणप्र० → इक । वृद्धिः आ ।
[दैवसिकः] दिवसेषु भवः = दैवसिकः । अनेन इकण्प्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
वर्षाग्रहणं 'भर्तु-सन्ध्यादेरण' (६।३।८९) ऋत्वण्बाधनार्थम् । कालशब्दः कालविशेषवाची ‘भर्तु-सन्ध्यादेरण' (६।३।८९) इत्यत्र सन्ध्यादिग्रहणात् । स्वरूपग्रहणे हि काललक्षणेकण्बाधकं सन्ध्यादिग्रहणमनर्थकं स्यात् । बहुवचनं तु यथाकथञ्चित् कालवृत्तिभ्यः प्रत्ययप्रापणार्थम् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [228]