________________
२२६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[अवमः] अवरा । अवरस्यां दिशि । 'पूर्वा-ऽवरा-ऽधरेभ्योऽसस्तातौ पुरवधश्चैषाम्' (७।२।११५) अस्प्र० - अवरा० → अव्देशश्च । अवो भवः = अवमः । अनेन अमप्र० । 'प्रायोऽव्ययस्य' (७४/६५) अस्लोपः ।।
[अधमः] अधरा । अधरस्यां दिशि । 'पूर्वा-ऽवरा-ऽधरेभ्योऽसस्तातौ पुरवधश्चैषाम्' (७।२।११५) अस्प्र० - अधरा० → अध्देशश्च । अधो भवः = अधमः । अनेन अमप्र० । 'प्रायोऽव्ययस्य' (७४/६५) अस्लोपः ।
पश्चादाद्यन्ता-ऽग्रादिमः ॥ ६।३।७५ ॥
[पश्चादाद्यन्ताऽग्रात्] पश्चाच्च आदिश्च अन्तश्च अग्रश्च = पश्चादाद्यन्ताऽग्रम्, तस्मात् । [इमः] इम प्रथमा सि । [पश्चिमः ] पश्चाद्भवः = पश्चिमः । अनेन इमप्र० । 'प्रायोऽव्ययस्य' (७४।६५) अन्त्यस्वरादिलोपः । [आदिमः ] आदौ जातः । अनेन इमप्र० । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । [अन्तिमः] अन्ते जातः । अनेन इमप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [अग्रिमः] अग्रे जातः । अनेन इमप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । आद्यन्ताभ्यां भवादन्यत्रायं विधिः । भवे तु परत्वाद् दिगादिय एव ॥छ।।
मध्यान्मः ॥ ६।३७६ ॥ [मध्यात्] मध्य पञ्चमी ङसि । [मः] म प्रथमा सि । [मध्यमः ] मध्ये जातः = मध्यमः । अनेन मप्र० । भवेऽर्थे 'मध्याद् दिनण्–णेया०' (६।३।१२६) इत्यनेन दिनणादिर्वक्ष्यते, ततोऽन्यत्रायं विधिः ॥छ।।
मध्य उत्कर्षा-ऽपकर्षयोरः ।। ६।३।७७ ।। [मध्ये ] मध्य सप्तमी ङि । [उत्कर्षाऽपकर्षयोः] उत्कर्षश्च अपकर्षश्च = उत्कर्षाऽपकर्षों, तयोः = उत्कर्षाऽपकर्षयोः । षष्ठी ओस् । [अ] अ प्रथमा सि । नात्युत्कृष्टो नात्यपकृष्टो मध्यपरिणाम इत्यर्थकथनम् । [मध्यो वैयाकरणः] मध्ये जातः = मध्यो वैयाकरणः । अनेन अप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलोपः ।
[मध्या गुणाः] मध्ये जाताः = मध्याः । अनेन अप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा जस् । गुण प्रथमा जस् ।
[मध्या स्त्री] मध्ये जाता = मध्या । अनेन अप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । नातिदीर्घ नातिहस्वं मध्यप्रमाणमित्यर्थकथनम् । [मध्यं काष्ठम् ] मध्ये जातं = मध्यम् । अनेन अप्र० । सि-अम् । काष्ठम् । नातिस्थूलो नातिकृश इत्यर्थकथनम् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[226]