________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२२५
[दक्षिणार्द्धयम्, दाक्षिणाद्धिकम् ] दक्षिणाया अर्द्ध = दक्षिणार्द्धम् । 'दिगधिकं संज्ञा - तद्धितोत्तरपदे' (३।१।९८) समासः । दक्षिणाः भवं = दक्षिणार्द्धयम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम् - दाक्षिणाद्धिकम् । अनेन इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[पश्चाद्धयम्, पाश्चाद्धिकम् ] अपर-अर्द्ध । अपरमर्द्ध = पश्चार्द्धम् । 'वोत्तरपदेऽर्द्ध' (७।२।१२५) पश्चादेशः । पश्चाः भवं = पश्चाद्धयम् । अनेन यप्र० । एवम्-पाश्चाद्धिकम् । इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।।
ग्राम-राष्ट्रांऽशादणिकणौ ॥ ६।३७२ ।।
[ग्रामराष्ट्रांऽशात् ] ग्रामश्च राष्ट्रं च = ग्रामराष्ट्र, ग्रामराष्ट्रयोरंशः = ग्रामराष्ट्रांऽशः, तस्मात् । [अणिकणौ ] अण् च इकण च = अणिकणौ ।
[पौर्वार्द्धः, पौद्धिकः] पूर्वस्यार्द्धः = पूर्वार्द्धः । ग्रामस्य राष्ट्रस्य वा पूर्वार्द्ध भवः = पौर्वार्द्धः, पौर्वाद्धिकः । अनेन अण्प्र० → अ, इकण्प्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[दाक्षिणार्द्धः, दाक्षिणाद्धिकः] दक्षिणाया अर्द्धः = दक्षिणार्द्धः, दक्षिणाद्धे भवः = दाक्षिणार्द्धः, दाक्षिणाद्धिकः । अनेन अण्प्र० → अ - इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
__परा-ऽवरा-ऽधमोत्तमादेर्यः ॥ ६।३।७३ ॥ [पराऽवराऽधमोत्तमादेः] परश्च अवरश्च अधमश्च उत्तमश्च = पराऽवराऽधमोत्तमाः । पराऽवराऽधमोत्तमा आदयो यस्य सः = पराऽवराऽधमोत्तमादिः, तस्मात् ।
[यः] य प्रथमा सि ।
[ परार्द्धयम् ] परस्यार्द्ध = परार्द्धम् । पराः भवं = परार्द्धयम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ।
[अवरार्द्धयम् ] अवरस्यार्द्धम् = अवरार्द्धम् । अवरार्द्ध भवम् = अवरार्धयम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् ।
[अधमार्द्धयम् ] अधमस्यार्द्धम् = अधमार्द्धम् । अधमाः भवम् = अधमाध्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[उत्तमार्द्धयम् ] उत्तमाः भवम् = उत्तमार्द्धयम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ॥छ।
अमोऽन्ता-ऽवो-ऽधसः ॥ ६।३।७४ ॥ [अमः] अम प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । [अन्ताऽवोऽधसः] अन्तश्च अवश्च अधस् च = अन्ताऽवोऽधस्, तस्मात् । [अन्तमः] अन्ते भवः = अन्तमः । अनेन अमप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [225]