________________
२२४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[द्वैपको व्यासः, द्वैपकमस्य हसितम्] द्वीपे भवः = द्वैपकः । 'कच्छादेर्नु-नृस्थे' (६।३।५५) अकप्र० → अक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । व्यासः । एवम् - द्वैपकम् ।
[द्वैपम् ] द्वीपे भवं = द्वैपम् । 'कोपान्त्याच्चाऽण्' (६।३।५६) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।।
अर्द्धाद् यः ॥ ६।३।६९ ॥ [अर्द्धात् ] अर्द्ध पञ्चमी ङसि ।
[यः] य प्रथमा सि । [अर्द्धयम् ] अर्द्ध भवम् = अर्द्धयम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।।
सपूर्वादिकण् ॥ ६।३।७० ॥ [सपूर्वात्] सह पूर्वपदेन वर्त्तते = सपूर्वः । 'ते लुग्वा' (३।२।१०८) पदलुक् । 'सहस्य सोऽन्यार्थे' (३।२।१४३) सह० → स० । तस्मात् ।
[इकण्] इकण् प्रथमा सि ।।
[पौष्कराद्धिकः] पुष्करस्यार्द्ध = पुष्करार्द्धम्, तत्र भवः = पौष्कराद्धिकः । अनेन इकण्प्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[वैजयाद्धिकः] विजयस्यार्द्ध = विजयार्द्धम्, तत्र भवः = वैजयाद्धिकः । अनेन इकण्प्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[वालेयाद्धिकः] वाला । वालाया अपत्यं = वालेयः । 'ङ्याप्त्यूङः' (६।११७०) एयणप्र० → एय । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । वालेयो गर्दभः, तस्याः भवः = वालेयाद्धिकः । अनेन इकण्प्र० → इक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[गौतमाद्धिकः] गौतमस्याः भवः = गौतमाद्धिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।।
[क्षेत्राद्धिकः] क्षेत्रस्यार्द्धः = क्षेत्रार्द्धः, तत्र भवः = क्षेत्राद्धिकः । अनेन इकण्प्र० → इक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
[यौवनाद्धिकः] यौवनस्यार्द्धः = यौवनार्द्धः, तत्र भवः = यौवनाद्धिकः । अनेन इकण्प्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
दिक्पूर्वात् तौ ॥ ६।३।७१ ॥ [दिक्पूर्वात् ] दिक् पूर्वपदं यस्य सः = दिक्पूर्वपदः, तस्मात् = दिक्पूर्वात् । ‘ते लुग्वा' (३।२।१०८) पदलुक् ।
[तौ ] तद् औ । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'ऐदौत् सन्ध्य क्षरैः' (१२।१२) औ ।।
[पूर्वाद्धर्यम्, पौर्वाद्धिकम् ] पूर्वं च तत् अर्द्धं च = पूर्वार्द्धम् । पूर्वार्द्ध भव:(भवं) = पूर्वाद्ध्यः(यम्) । अनेन यप्र० । एवम् - पौर्वाधिक:(कम्) । अनेन इकण्प्र० → इक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [224]