________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२२३
[अस्य] इदम् षष्ठी ङस् । 'आ ढेरः' (२।१।४१) म० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'अनक्' (२।१।३६) इद० → अ० । 'टा-ङसोरिन-स्यौ' (२४/५) ङस् → स्य० ।
[एकत्वे] एकत्व सप्तमी ङि । [तु] तु प्रथमा सि । [ तवकममकम् ] तवकश्च ममकश्च = तवकममकम् ।
[यौष्माकः, यौष्माकीणः ] युष्मद् । युष्माकमयं युवयोर्वा = यौष्माकः, यौष्माकीणः । अनेन अप्र० → अ - ईनप्र० → ईन - युष्मद् → युष्माकदेशश्च । 'वृद्धि: स्वरेष्वादेणिति तद्धिते' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[आस्माकः, आस्माकीनः] अस्मद् । अस्माकमयमावयोर्वा = आस्माकः, आस्माकीनः । अनेन अप्र० → अ - ईनप्र० → इन - अस्मद् → अस्माकदेशश्च । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[युष्मदीयः] युष्माकमयं = युष्मदीयः । 'दोरीयः' (६।३।३२) ईयप्र० । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
[अस्मदीयः] अस्माकमयम् = अस्मदीयः । 'दोरीयः' (६।३।३२) ईयप्र० । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[तावकः, तावकीनः] युष्मद् । तवायं = तावकः, तावकीनः । अनेन अप्र० → अ - ईनप्र० → ईन - तवकआदेशश्च । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[मामकः, मामकीनः ] अस्मद् । ममायं = मामकः, मामकीनः । अनेन अप्र० → अ - ईनप्र० → ईन - ममकदेशश्च । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[त्वदीयः] युष्मद् । तवायं = त्वदीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'लोकात्' (१।१।३) युष्म् पाठउ विश्लेषियइ । 'त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन्' (२।१।११) त्वदेशः । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
[मदीयः] अस्मद् । ममायं = मदीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'लोकात्' (१।१।३) अस्म् पाठउ विश्लेषियइ । 'त्व-मौ प्रत्ययोत्तरपदे०' (२।१।११) मदेशः । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ॥छ।।
द्वीपादनुसमुद्रं ण्यः ॥ ६।३।६८ ॥
[द्वीपात् ] द्वीप पञ्चमी ङसि ।
[अनुसमुद्रम् ] समुद्रस्य अनु-समीपम् = अनुसमुद्रम्, तस्मिन् । सप्तम्याः ङिस्थाने 'सप्तम्या वा' (३।२।४) ङि० → अम्भावः । 'समानादमोऽतः' (१।४।४६) अलुक् ।
[ण्यः] ण्य प्रथमा सि ।।
[ द्वैप्यो मनुष्यः, द्वैप्यमस्य हसितम्, द्वैप्यम् ] द्वीपे भवः = द्वैप्यः । अनेन ण्यप्र० → य । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । मनुष्यः । एवम्-द्वैप्यम् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [223]