________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२२१
[काठेरिणि] कठ 'ईरण क्षेपे' (१९७४) ईर् । 'चुरादिभ्यो णिच्' (३।४।१७) णिचप्र० । कठमीरयति । 'विपिनाजिनादयः' (उणा० २८४) किद् इनप्र० । 'पृषोदरादयः' (३।२।१५५) काठेरिणिनिपात्यते ।
[लावेरिणि] लव 'ईरण क्षेपे' (१९७४) ईर् । 'चुरादिभ्यो णिच्' (३४।१७) णिच्प्र० । लवमीरयति । 'विपिनाजिनादयः' (उणा० २८४) किद् इनप्र० । 'पृषोदरादयः' (३।२।१५५) लावेरिणिनिपात्यते ।
इति गहादिः ॥छ।।
पृथिवीमध्यान्मध्यमश्चास्य ।। ६।३।६४ ।।
[ पृथिवीमध्यात्] पृथिवीमध्य पञ्चमी ङसि । [मध्यमः] मध्यम प्रथमा सि । [च] च प्रथमा सि ।
[अस्य] इदम् षष्ठी ङस् । 'आ द्वेरः' (२।१४१) म० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'अनक्' (२।१।३६) इद० → अ० । 'टा-ङसोरिन-स्यौ' (१।४।५) ङस्० → स्य० ।।
[मध्यमीयः] पृथिव्या मध्यं = पृथिवीमध्यम् । पृथिवीमध्ये जातो भवो वा = मध्यमीयः । अनेन ईयप्र० - पृथिवीमध्य० → मध्यमदेशश्च ।
निवासाच्चरणेऽण् ॥ ६।३।६५ ।। [निवासात् ] निवास पञ्चमी ङसि । [चरणे] चरण सप्तमी ङि । [अण्] अण् प्रथमा सि ।।
[माध्यमाश्चरणाः] पृथिवीमध्यं निवास एषां चरणानां = माध्यमाश्चरणाः । अनेन अण्प्र० → अ - पृथिवीमध्य० → मध्यमदेशश्च । वृद्धिः आ । प्रथमा जस् ।
[मध्यमीयः कठः] पृथिवीमध्यादागतः = मध्यमीयः । 'पृथिवीमध्यान्मध्यमश्चास्य' (६।३।६४) ईयप्र० - मध्यमदेशश्च । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[मध्यमीयः शूद्रः] पृथिवीमध्यं निवासोऽस्य सः = मध्यमीयः । 'पृथिवीमध्यान्मध्यमश्चास्य' (६।३।६४) ईयप्र० - पृथिवीमध्य० → मध्यमदेशश्च । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । शूद्रः ।
अण्ग्रहणं किमर्थम् ? यतो यो हि अन्येन बाधितो न प्राप्नोति तदर्थमिदं स चाणेव ? सत्यम् - निवासाच्चरण इति कृते पूर्वसूत्रेणैव सिद्धे नियमार्थं स्यात् । पृथिवीमध्यान्निवासभूतदेशवाचिनश्चरणे एव निवस्तरि नान्यत्र । ततश्च मध्यमीयाश्चरणाः, माध्यमः शूद्रः इति वैपरीत्यं स्याद् अतस्तन्मा भूदिति अण्ग्रहणमिति भावार्थः ॥छ।।
वेणुकादिभ्य ईयण् ॥ ६।३।६६ ।। [ वेणुकादिभ्यः] प्रवेणुक आदिर्येषां ते = वेणुकादयः, तेभ्यः ।
[ईयण] ईयण प्रथमा सि । ॐ शब्दरत्नमहोदधौ - वेणुकशब्दो नपुंसकलिङ्गेऽस्ति ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [221]