________________
२२०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[पर्वतीयो राजा पुमान् वा] पर्वते भवः = पर्वतीयः राजा । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । पुमान् वा ।
अनरे वा ॥ ६।३।६१ ॥ [अनरे] न नरोऽनरस्तस्मिन् । [वा] वा प्रथमा सि ।
[पर्वतीयानि, पार्वतानि फलानि ] पर्वते भवानि = पर्वतीयानि, पार्वतानि । अनेन ईयप्र० । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः ।
[पर्वतीयं, पार्वतमुदकम् ] पर्वते भवं = पर्वतीयम् । अनेन ईयप्र० । एवम् - पार्वतम् । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् ।
[पर्वतीयो मनुष्यः] पर्वते भवः = पर्वतीयः । 'पर्वतात्' (६।३।६०) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । मनुष्यः ॥छ।।
पर्ण-कृकणाद् भारद्वाजात् ॥ ६।३।६२ ।। [पर्णकृकणात् ] पर्णश्च कृकणश्च = पर्णकृकणम्, तस्मात् ।
[भारद्वाजात्] भारद्वाज पञ्चमी ङसि । भा(भ)रद्वाजोऽत्रास्ति = भारद्वाजः । 'तदत्राऽस्ति' (६।२।७०) अण्प्र० → अ । वृद्धिः । 'अवर्णवर्णस्य' (७/४/६८) अलुक्, तस्मात् ।
[पर्णीयः] पर्णे भवः = पर्णीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [कृकणीयः] कृकणे भवः = कृकणीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[पार्णः] पणे भवः = पार्णः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[कार्कणः] कृकणे भवः = कार्कणः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ॥छ।।।
गहादिभ्यः ॥ ६।३।६३ ।। [गहादिभ्यः] गह आदिर्येषां ते = गहादयः, तेभ्यः ।
[गहीयः] 'गाहौङ् विलोडने' (८७१) गाह् । गाहते = गहः । घप्र० → अ । 'पृषोदरादयः' (३।२।१५५) इति हुस्वः । गहे भवः = गहीयः । अनेन ईयप्र० ।
[अन्तस्थीयः] अन्तस्थे भवः = अन्तस्थीयः । अनेन ईयप्र० ।
गहादौ पठितानां येषां देशे वृत्तिर्वर्त्तते तेषां योज्यते नान्येषाम् । यथा अन्तस्थाशब्दस्य य-र-लववाचिनोऽधुटवृत्तेऽनेन ईयप्र० । यथा अन्तस्थीयः ।
[खाडायनि] खडस्यापत्यं = खाडायनि । 'अवृद्धाद् दोर्नवा' (६।१२११०) आयनिप्र० → आयनि । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [220]