________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२१७
गर्नोत्तरपदादीयः ।। ६३५७ ॥
[गर्नोत्तरपदात् ] गर्त उत्तरपदं यस्य सः = गतॊत्तरपदः, तस्मात् । [ईयः] ईय प्रथमा सि । [ श्वाविद्गीयः ] श्वाविद्गर्ते भवः = श्वाविद्गीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [वृकगीयः] वृकगर्ते भवः = वृकगीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [शृगालगर्तीयः] शृगालगते भवः = शृगालगर्तीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [रोहिद्गीयः] रोहिद्गर्ते भवः = रोहिद्गर्तीयः । अनेन ईयप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
[आभिसारगर्त्तकः] अभिसारगर्ते भवः = आभिसारगर्त्तकः । 'बहुविषयेभ्यः' (६।३।४५) अकञ्प्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[त्रैगर्तकः ] त्रिगर्तेषु भवः = त्रैगर्तकः । 'बहुविषयेभ्यः' (६।३।४५) अकञ्प्र० → अक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।।
[बाहुगतः] ईषदपरिसमाप्तो गर्त्तः = बहुगतः । 'नाम्नः प्राग् बहुर्वा' (७३।१२) बहु । बहुगर्ने भवः = बाहुगतः । 'भवे' (६।३।१२३) अण्प्र० । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ॥छ।।
कटपूर्वात् प्राचः ॥ ६।३।५८ ॥
[कटपूर्वात् ] कटं पूर्वपदं यस्य सः = कटपूर्वः, तस्मात् = कटपूर्वात् । 'ते लुग्वा' (३।२।१०८) पदलोपः । [ प्राचः] प्राञ्चतीति प्राङ्, तस्मात् = प्राचः । पञ्चमी ङसि ।
[कटनगरीयः ] कटस्य नगरं = कटनगरम् । कटनगरे भवः = कटनगरीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[कटग्रामीयः] कटस्य ग्रामः = कटग्रामः । कटग्रामे भवः = कटग्रामीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[कटघोषीयः] कटस्य घोषः = कटघोषः । कटघोषे भवः = कटघोषीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[कटवर्तीयः] कटवर्ते भवः = कटवर्तीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [कटपल्वलीयः] कटपल्वले भवः = कटपल्वलीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[काटनगरः] कटनगरे भवः = काटनगरः । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
__क-खोपान्त्य-कन्था-पलद-नगर-ग्राम-हृदोत्तरपदाद् दोः ॥६।३।५९ ॥ [कखोपान्त्यकन्थापलदनगरग्रामहृदोत्तरपदात् ] कश्च खश्च = कखौ, कखावुपान्त्यौ यस्य सः = कखोपान्त्यः । कखोपान्त्यश्च कन्था च पलदश्च नगरश्च(रं च) ग्रामश्च ह्रदश्च = कखोपान्त्यकन्थापलदनगरग्रामहूदाः । कखोपान्त्यकन्थापलदनगरग्रामहूदा उत्तरपदे यस्य सः = कखोपान्त्यकन्थापलदनगरग्रामहृदोत्तरपदः, तस्मात् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [217]