________________
२१६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[सैन्धविका चूला] सिन्धुषु भवा = सैन्धविका । अनेन अकप्र० → अक । वृद्धिः ऐ । 'अस्वयम्भुवोऽव्' (७/४/७०) अव् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ ।
[काच्छो गौः] कच्छे भवः = काच्छ: । 'कोपान्त्याच्चाऽण' (६।३।५६) अण्प्र० → अ ।
[सैन्धवं लवणम् ] सिन्धुषु भवं = सैन्धवम् । 'कोपान्त्याच्चाऽण' (६।३।५६) अण्प्र० → अ । वृद्धिः ऐ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । सि-अम् ।
[विजापक] 'जिं अभिभवे' (८) जि । जयन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० → इ । 'णौ क्री-जीङः' (४।२।१०) इ० → आ० । 'अति-री-व्ली०' (४।२।२१) पोऽन्तः । 'जप मानसे च' (३३८) जप्, विपूर्व० । विजपन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० → इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । विजापयतीति विजापकः । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । 'णेरनिटि' (४।३।८३) णिग्लुक् ॥छ।।
कोपान्त्याच्चाऽण् ॥ ६।३।५६ ॥ [कोपान्त्यात् ] क उपान्त्यो यस्य सः = कोपान्त्यः, तस्मात् । [च] च प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । [अण्] अण् प्रथमा सि । 'उवर्णादिकण्' (६।३।३९) - 'बहुविषयेभ्यः' (६।३।४५) इत्यनयोः इकण-अकोरपवादः ।
[आर्षिकः] ऋषयः सन्त्यत्र । कप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्-तत्०' (२।४।१११) इ । ऋषिका जनपदः, तेषु जातः = आषिकः । अनेन अण्प्र० → अ । वृद्धिः आर् । 'अवर्णेवर्णस्य' (७४/६८) आलुक् ।
[माहिषकः] महिष 'कैं शब्दे' (३६) कै। 'आत् सन्ध्यक्षरस्य' (४।२।१) का । महिषान् कायन्ति = महिषकः । 'आतो डोऽह्वा-वा-मः' (५।११७६) डप्र० → अ । 'डित्यन्त्य०' (२।१।११४) अन्त्यस्वरादिलोपः । महिषकेषु भवः = माहिषकः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[आश्मकः] अश्मकेषु भवः = आश्मकः । अनेन अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[ऐक्ष्वाकः] इक्ष्वाकुषु भवः = ऐक्ष्वाकः । अनेन अणप्र० → अ । वृद्धिः ऐ । 'सारवैश्वाक-मैत्रेय-भ्रौणहत्यधैवत्य-हिरण्मयम्' (७।४।३०) उलुक् ।
[काच्छ:] कच्छेषु जातः = काच्छः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[ सैन्धवः ] सिन्धुषु जातः = सैन्धवः । अनेन अण्प्र० → अ । वृद्धिः ऐ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ।
[वार्णवः] वर्णषु जातः = वार्णवः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ।
अथाणग्रहणं किमर्थम् ? यो हि अन्येन बाधितो न प्राप्नोति तदर्थमिदं स्यात् स चाणेव, न चानन्तरोऽकडेव स्यादित्याशङ्कनीयम् । एवं हि पूर्वमकविधानमनर्थकं स्यात् ? नैवम्, असत्यण्ग्रहणे इक्ष्वाकोरुवर्णलक्षण इकण् स्यात्, स हि ततो राष्ट्राकञा बाधितः ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[216]