________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२१५
[यौगन्धरकः, यौगन्धरः] युगन्धरेषु, भवः = यौगन्धरकः । अनेन अकञ्प्र० → अक । वृद्धिः औ । एवम्यौगन्धरः । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धि: औ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
राष्ट्रशब्दावेतौ बहुविषयौ च तत्र युगन्धरात् 'बहुविषयेभ्यः' (६।३।४५) इति नित्यमकत्रि प्राप्ते विकल्पः । कुरोस्त्वकञः कच्छाद्यणा बाधितस्य प्रतिप्रसवार्थं वचनम् ।
[कौरवको मनुष्यः] कुरुषु भवः = कौरवकः । 'कच्छादेर्नु-नृस्थे' (६।३।५५) अकप्र० → अक । वृद्धि: औ । 'अस्वयम्भुवोऽव्' (७।४७०) अव् । मनुष्यः । _ [कौरवकमस्य हसितम् ] कुरुषु भवः = कौरवकम् । 'कच्छादेर्नु-नृस्थे' (६।३।५५) अकप्र० → अक । वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । सि-अम् । अस्य हसितम् ॥छ।।
साल्वादु गो-यवाग्वपत्तौ ।। ६३५४ ।। [साल्वात् ] साल्व पञ्चमी ङसि । [गोयवाग्वपत्तौ ] गौश्च यवागूश्च अपत्तिश्च = गोयवाग्वपत्ति, तस्मिन् ।
[साल्वको गौः, साल्विका यवागूः, साल्वको मनुष्यः] साल्वेषु भवः । साल्वेषु भवा = साल्विका । अनेन अकप्र० → अक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । द्वितीये 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्' (२।४।१११) इ ।
[साल्वा व्रीह्यः] साल्वेषु भवाः = साल्वाः । 'कोपान्त्याच्चाऽण्' (६।३।५६) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा जस् । व्रीहि प्रथमा जस् । 'जस्येदोत्' (१।४।२२) ए। 'एदैतोऽयाय्' (१।२।२३) अय् ।
[साल्वः पत्तिः] साल्वेषु भवः = साल्वः । 'कोपान्त्याच्चाऽण्' (६।३।५६) अण्प्र० → अ । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । पत्ति प्रथमा सि ।
राष्ट्रेभ्योऽकजि कच्छाद्यणा बाधिते गो-यवागूग्रहणं प्रतिप्रसवार्थम् । अपत्तीति पत्तिप्रतिषेधात् तत्सदृशे मनुष्ये विधिः । तत्र चोत्तरेण 'कच्छादेर्नु-नृस्थे' (६।३।५५) इत्यनेन सिद्ध एवाकत्रि नरि नियमार्थमपत्तिग्रहणम् ॥छ।।
कच्छादेर्नु-नृस्थे ॥ ६।३।५५ ॥ [कच्छादेः ] कच्छ आदिर्यस्य सः = कच्छादिः, तस्मात् । [ नृनृस्थे ] ना च नृस्थश्च = नृनृस्थम्, तस्मिन् ।
[काच्छको मनुष्यः, काच्छकमस्य हसितम्] कच्छे भवः = काच्छकः । अनेन अकप्र० → अक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । मनुष्यः । एवम् - काच्छकम् ।
[काच्छिका चूला] कच्छे भवा = काच्छिका । अनेन अकप्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ ।
[सैन्धवको मनुष्यः, सैन्धवकमस्य हसितम्] सिन्धुषु भवः = सैन्धवकः । अनेन अकञ्प्र० → अक । वृद्धि: ऐ। 'अस्वयम्भुवोऽव्' (७४/७०) अव् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । एवम्-सैन्धवकम् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [215]