________________
२१४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[बहुकच्छो देशः] ईषदसमाप्तः कच्छः = बहुकच्छः । 'नाम्नः प्राग् बहुर्वा' (७।३।१२) बहु । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । कुत्सा-दाक्ष्यादन्यत्र अकञ् न भवति ॥छा।
अरण्यात् पथि-न्याया-ऽध्यायेभ-नर-विहारे ॥ ६।३।५१ ।। [अरण्यात् ] अरण्य पञ्चमी ङसि ।
[पथिन्यायाऽध्यायेभनरविहारे] पन्था(:) च न्यायश्च अध्यायश्च इभश्च नरश्च विहारश्च = पथिन्यायाऽध्यायेभनरविहारम्, तस्मिन् ।
[आरण्यकः पन्थाः न्यायोऽध्यायः इभो नरो विहारो वा] अरण्ये भवः = आरण्यकः । अनेन अकञ्प्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । पन्थेत्यादि ।
[आरण्याः सुमनसः ] अरण्ये भवाः = आरण्याः । 'रूप्योत्तरपदा-ऽरण्याण्णः' (६।३।२२) णप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा जस् । सुमनस् प्रथमा जस् ।
[आरण्याः पशवः] अरण्ये भवाः = आरण्याः । रूप्योत्तरपदा-ऽरण्याण्णः' (६।३।२२) णप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा जस् । पशु प्रथमा जस् ॥छ।।
गोमये वा ॥ ६३५२ ॥ [गोमये] गोमय सप्तमी ङि। [वा] वा प्रथमा सि ।
[आरण्यका गोमयाः, आरण्यानि गोमयानि] अरण्ये भवाः = आरण्यकाः । अनेन अकप्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । जस् । एवम् - आरण्यानि । 'रूप्योत्तरपदाऽरण्याण्णः ' (६।३।२२) णप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । जस् । 'नपुंसकस्य शिः' (।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः ।
[आरण्या आरण्यिका हस्तिनी] अरण्ये भवा = आरण्या, आरण्यिका । 'रूप्योत्तरपदा-ऽरण्याण्णः' (६।३।२२) णप्र० → अ । मतान्तरे अकञ्प्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ० । 'अस्याऽयत्०' (२।४।१११) इ । हस्तिनी ॥छ।।
कुरु-युगन्धराद् वा ॥ ६।३।५३ ।। [कुरुयुगन्धरात् ] कुरुश्च युगन्धरश्च = कुरुयुगन्धरम्, तस्मात् । [वा] वा प्रथमा सि ।
[कौरवकः, कौरवः ] कुरुषु भवः = कौरवकः । अनेन अकञ्प्र० → अक । वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । एवम्-कौरवः । 'कोपान्त्याच्चाण' (६।३।५६) अण्प्र० → अ । वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७।४/७०) अव् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[214]