________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२१३
कुत्सा-निन्दा, कुत्सनं = कुत्सा । 'भीषि-भूषि-चिन्ति-पूजि-कथि-कुम्बि-चर्चि-स्पृहि-तोलि-दोलिभ्यः' (५।३।१०९) बहुवचनात् अप्र० → अ । 'आत्' (२।४।१८) आप्प्र० → आ ।
[चौरा हि नागरकाः] नगरे भवाः = नागरकाः । अनेन अकप्र० → अक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । जस् ।
[दक्षा हि नागरकाः] नगरे भवाः = नागरकाः । अनेन अकप्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । जस् ।
[नागरः पुरुषः] नगरे भवः = नागरः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । पुरुषः ।
[नागरेयकः] नगरे भवः = नागरेयकः । 'कत्त्र्यादेश्चैयकञ्' (६।३।१०) एयकप्र० → एयक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
कच्छा-ऽग्नि-वक्त्र-वर्तोत्तरपदात् ॥ ६।३५० ।। [कच्छाऽग्निवक्त्रवतॊत्तरपदात्] कच्छश्च अग्निश्च वक्त्रश्च वर्त्तश्च = कच्छाऽग्निवक्त्रवतः । कच्छाऽग्निवक्त्रवर्ती उत्तरपदं यस्य सः = कच्छाऽग्निवक्त्रवतॊत्तरपदः, तस्मात् ।
[भारुकच्छकः] भरो:-ऋषेः कच्छ: स जलप्रदेशः । भरुकच्छस्याऽदूरभवः = भारुकच्छः । 'निवासा-ऽदूरभव इति देशे नाम्नि' (६।२।६९) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । भारुकच्छे भवः = भारुकच्छकः । अनेन अकञ्प्र० → अक । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । __[पैष्पलीयकच्छकः] पिष्पल्या विकारः, फलम् । 'विकारे' (६।२।३०) अण्प्र० → अ । 'फले' (६।२।५८) अण्लुप् । 'ङ्यादेर्गौणस्या०' (२।४।९५) ङीनिवृत्तिः । पिष्पल्यान्यत्र सन्ति = पिष्पलीयः । 'उत्करादेरीयः' (६।२।९१) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । पिष्पलीयश्चासौ कच्छश्च = पिष्पलीयकच्छौ, तत्र भवः = पैष्पलीयकच्छकः । अनेन अकप्र० → अक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[काण्डाग्नकः] काण्डानामग्निरिव = काण्डाग्नि(:) । काण्डाग्नौ भवः = काण्डाग्नकः । अनेन अकप्र० → अक । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[वैभुजाग्नकः] विभुजोऽग्निर्यत्र सः = विभुजाग्नि(:) । विभुजाग्नौ भवः = वैभुजाग्नकः । अनेन अकञ्प्र० → अक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[ऐन्दुवक्त्रकः] इन्दुवक्त्रस्य निवासः = ऐन्दुवक्त्रः । 'निवासा-ऽदूरभव०' (६।२।६९) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । ऐन्दुवक्त्रे भवः = ऐन्दुवक्त्रकः । अनेन अकञ्प्र० → अक ।
[तैन्दुवक्त्रकः ] तिन्दुवद् वक्त्रं = तिन्दुवक्त्रम् । तिन्दुवक्त्रे भवः = तैन्दुवक्त्रकः । अनेन अकप्र० → अक । वृद्धिः ऐ।
[बाहुवर्तकः ] बाहुकृतो वर्तो यस्य सः = बाहुवर्त्तः । बाहुवर्ते भवः = बाहुवर्तकः । अनेन अकप्र० → अक।
[चाक्रवर्तकः] चक्रवत् भ्राम्यन् वर्तो - वृत्तिर्यस्य सः = चक्रवर्त्तः । चक्रवर्ते भवः = चाक्रवर्तकः । अनेन अकप्र० → अक । वृद्धिः आ ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [213]