________________
२१८
[ दो ] दु पञ्चमी ङसि ।
[ आरोहणकीयः ] अरीहणेन निवृत्तम् 'वृद्धि: स्वरे०' (७७४१) वृद्धिः आ 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
-
=
आरोहणकम् । 'अरीहणादेरकण्' (६।२।८३) अकण्प्र० अक । अरीहणादिपाठात् णत्वम् । आरीहणके भवः = आरोहणकीयः । अनेन ईयप्र० ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
अल्प्र०
[द्रौघणकीयः ] द्रु 'हनंक् हिंसा गत्योः' (११००) हन् । दुर्हन्यते = दुषणः । व्ययो द्रो: करणे (५|३|३८) घनादेशश्च । द्रुघणा अत्र सन्ति = द्रौघणकः । 'अरीहणादेरकण्' (६।२।८३) अकण्प्र० अक वृद्धिः स्वरे० ' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । द्रौघणके भवः = द्रौघणकीयः । अनेन ईयप्र० ।
[ आश्वत्विकीयः ] अश्वत्था अत्र सन्ति = अश्वत्थकाः । अश्वत्थादेरिकण्' (६।२।९७) इकप्र० इक । 'वृद्धि: स्वरे०' (७|४|१) वृद्धि: आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । आश्वत्थिके भवः = आश्वस्थिकीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[शाल्मलिकीयः ] शाल्मलि शाल्मलयोऽत्र सन्ति शाल्मलिका: 'अश्वत्थादेरिकण्' (६४२१९७) इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७|४|१) वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । शाल्मलिके भवः = शाल्मलिकीयः । अनेन इयप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् ।
[ सौषु (सु) कीय: ] शोभनः सुको देवताऽस्य सौसुक्द 'देवता' (६।२।१०१) अणूप्र० अ वृद्धिः स्वरेष्वादेज्गिति०' (७|४|१) वृद्धिः औ 'अवर्णेवर्णस्य' (७|४६८) अलुक् सौसुके भवः = ईयप्र० । 'अवर्णेवर्णस्य' (७४६८) अलुक् ।
सौसुकीयः । अनेन
=
[ आष्टकीयः] अष्टन् 'कैं शब्दे' (३६) कै । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) का । अष्टौ कायन्ति = अष्टकः । 'आतो डोऽहवा वामः' (५१११७६) प्र० अ 'डित्यन्त्यस्वरादे: ' (२|१|११४) अन्त्यस्वरादिलोपः । अष्टकाः अत्र सन्ति = आष्टकाः । तदत्राऽस्ति' (६।२७०) अण्प्र० अ वृद्धिः आ 'अवर्णेवर्णस्य' (७२४६८) अलुक् । आष्टकेषु भवः = आष्टकीयः अनेन ईयप्र० 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
। ।
[ ब्राह्मणकीय: ] ब्राह्मणेभ्यो ऽचिरोद्धृतः = ब्राह्मणकः । 'ब्राह्मणानाम्नि' (७|१|१८४) कप्र० ब्राह्मणकेषु भवः = ब्राह्मणकीयः । अनेन ईयप्र० । 'अवर्णेवस्य (७।४।६८) अलुक ।
[ बालकीय: ] बालके भवः = बालकीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य (७|४|६८) अलुक् ।
।
[ कौटशिखीयः ] कूटाकारा शिखा यत्र । कूटशिखेन निवृत्तः कौटशिख: । 'तेन निवृत्ते च' (६।२।७१) अण्प्र० अ । 'वृद्धिः स्वरे० ' ( ७४१) वृद्धिः औ 'अवर्णेवर्णस्य (७|४/६८) अलुक् कौटशिखे भवः = कौटशिखीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (अ४।६८) अलुक् ।
=
[ माटिशिखीयः ] मा-अविद्यमाना आटयो यासु ताः = माटयः । माटयः शिखा यत्र सः = माटिशिखः । माटिशिखा अत्र सन्ति = माटिशिखः । 'तदत्राऽस्ति' ( ६ | २|७० ) अण्प्र० अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः । 'अवर्णवर्णस्य' (७४६८) अलुक् माटिशिखे भवः = माटिशिखीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७|४।६८) अलुक् ।
[ आयामुखीयः ] 'यांक् प्रापणे' (१०६२) या, आङ्पूर्व० । आयान्तीति आया (:) । 'उपसर्गादात:' (५।३।११०) अप्र० अ आयं आयानां वा आगच्छतां मुखम् = आयामुखम् । आयामुखमत्रास्ति । तदत्राऽस्ति' (६।२१७०) अण्प्र० अ । वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । आयामुखे भवः = आयामुखीयः । अनेन ईयप्र० । 'अवर्णवर्णस्य' (७४६८) अलुक् ।
5 बृहद्वृत्ती हैमप्रकाशे च "अयोमुखीयः " ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [218]