________________
२१०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
'णेरनिटि' (४।३।८३) णिग्लोपः । अभिसारोऽत्रास्ति = आभिसारः । 'तदत्राऽस्ति' (६।२।७०) अण्प्र० → अ । वृद्धिः
आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । आभिसारे भवः = आभिसारकः । अनेन अकप्र० → अक । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।।
[आदर्शकः] 'दृशं प्रेक्षणे' (४९५) दृश्, आपूर्व० । आ एत्य दृश्यन्तेऽस्मिन् = आदर्शः । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । आदर्श भवः = आदर्शकः । अनेन अकञ्प्र० → अक ।
[औषुष्टकः] 'उषू दाहे' (५२९) उष् । उषुष्टानां राष्ट्रम् = औषुष्टम् । 'राष्ट्रेऽनङ्गाऽऽदिभ्यः' (६।२।६५) अण्प्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।८) अलुक् । औषुष्टे भवः = औषुष्टकः । अनेन अकप्र० → अक ।
[श्यामायनकः] श्यामा 'अयि गतौ' (७९०) अय् । श्यामु(मा) अय्यतेऽस्मिन्निति = श्यामायनम् । 'करणाऽऽधारे' (५।३।१२९) अनटप्र० → अन । औषुष्ट-श्यामायने राष्ट्रावधी अपि राष्ट्रे वर्त्तते, कस्मात् ? एकदेशे समुदायोपचारात् । श्यामायने भवः = श्यामायनकः । अनेन अकप्र० → अक । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
बहुवचनमकजः प्रकृतिबहुत्वं द्योतयदपवादविषयेऽपि प्रापणार्थम् । तेनेहापि भवति
[आभिसारगर्तकः] अभिसारगर्तस्य अदूरभवः = आभिसारगर्त्तः । 'निवासा-ऽदूरभव०' (६।२।६९) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । आभिसारगर्ते भवः = आभिसारगर्तकः । अनेन अकप्र० → अक । परमत्र गर्नोत्तरपदलक्षण ईयो बहुवचनान्न भवति ।
राष्ट्रसमुदायो न राष्ट्रग्रहणेन गृह्यते, इतीह न भवति
[काशिकोशलीयाः] काशि-राष्ट्रम् । कोशला-राष्ट्रम् । काशयश्च कोशलाश्च = काशिकोशलाः । तेषु भवाः = काशिकोशलीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । जस् ॥छ।।
बहुविषयेभ्यः ॥ ६।३।४५ ॥ [बहुविषयेभ्यः ] बहुत्वं विषयो येषां ते = बहुविषयाः, तेभ्यः = बहुविषयेभ्यः । पञ्चमी भ्यस् । दोरिति निवृत्तम्, योगविभागात् । अतः परं दोरदोश्च विधानम् । देशादिति तु वर्त्तते । [आङ्गकः ] अङ्गेषु जातः = आङ्गकः । [वाङ्गकः ] वङ्गेषु जातः = वाङ्गकः । [दार्वकः ] दार्वेषु जातः = दार्वकः ।
[काम्बवकः] कम्बु । कम्बुर्देवताऽस्य सः = काम्बवः । 'देवता' (६।२।१०१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । काम्बवेषु जातः = काम्बवकः । अनेन अकप्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[जैह्नवकः] जिह्वषु भवः = जैह्नवकः । 'उवर्णादिकण्' (६।३।३९) इत्यस्यापवादः । अनेन अकप्र० → अक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[210]