________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२०९
[काम्पील्यकः ] कम्पीलेन निवृत्तं = काम्पील्यम् । 'सुपन्थ्यादेर्व्यः' (६।२।८४) ञ्यप्र० → य । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । काम्पील्ये भवः = काम्पील्यकः । अनेन अकप्र० → अक । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[माणिरूप्यकः] माणि 'रूपण रूपक्रियायाम्' (१८९०) रूप् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । माणिभी रूप्यते = माणिरूप्यः । 'य एच्चातः' (५।१।२८) यप्र० । 'णेरनिटि' (४।३।८३) णिच्लोपः । माणिरूप्ये भवः = माणिरूप्यकः । अनेन अकप्र० → अक । 'अवर्णेवर्णस्य' (७४।८) अलुक् ।
[दासरूप्यकः ] दास 'रूपण रूपक्रियायाम्' (१८९०) रूप् । 'चुरादि०' (३।४।१७) णिच्प्र० । दासेन दासैर्वा रूप्यते = दासरूप्यः । 'य एच्चातः' (५।१।२८) यप्र० । 'णेरनिटि' (४।३।८३) णिच्लोपः । दासरूप्ये भवः = दासरूप्यकः । अनेन अकप्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।।
[आव्रीतमायवकः] आव्रीयते स्म = आव्रीतः । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । आव्रीतो मायुर्येन सः = आव्रीतमायुः । आव्रीतमायौ भवः = आव्रीतमायवकः । अनेन अकञ्प्र० → अक । 'अस्वयम्भुवोऽव्' (७४/७०) अव् ।
धन्ववाचि- [पारेधन्वकः] धन्वनि पारे = पारेधन्वा । 'नाम्नि' (३।१।९४) इति समासः । 'अद्-व्यञ्जनात् सप्तम्या बहुलम्' (३।२।१८) अलुप्समासः । पारेधन्वनि भवः = पारेधन्वकः । अनेन अकप्र० → अक । वृद्धिः । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लोपः ।
[आपारेधन्वकः] आ ईषत् पारम् = आपारम् । 'आङल्पे' (३।१।४६) समासः । धन्वनि आपारे = आपारेधन्वा । 'अद्-व्यञ्जनात्०' (३।२।१८) अलुप्समासः । आपारेधन्वनि भवः = आपारेधन्वकः । अनेन अकप्र० → अक । वृद्धिः । 'नोऽपदस्य०' (७४/६१) अन्लोपः ।
[ऐरावतकः] इरावती नदी तस्या अदूरभवः = ऐरावतः । 'निवासा-ऽदूरभव इति देशे नाम्नि' (६।२६९) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । ऐरावते भवः = ऐरावतकः । अनेन अकप्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[सौप्रख्यीयः] 'चक्षिक् व्यक्तायां वाचि' (११२२) चक्षु, सु-प्रपूर्व० । सुप्रचष्टे = सुप्रख्यः । 'चक्षो वाचि क्शांग्ख्यांग्' (४।४।४) ख्यांग्देशः → ख्या । 'आतो डोऽह्वा-वा-मः' (५।११७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् । सुप्रख्येन निवृत्तः = सौप्रख्यः । 'तेन निवृत्ते च' (६।२।७१) अण्प्र० → अ । वृद्धिः औ । सौप्रख्ये भवः = सौप्रख्यीयः । 'गहादिभ्यः' (६।३।६३) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।।
[कामप्रस्थीयः] कामप्रस्थे भवः = कामप्रस्थीयः । 'गहादिभ्यः' (६।३।६३) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । पुरग्रहणमप्राच्यार्थम् । प्राच्याद्धि रोपान्त्यत्वेनैव सिद्धम् । अत एव इह नानुवर्तते । ईयबाधनार्थं वचनम् ॥छ।।
राष्ट्रेभ्यः ।। ६।३।४४ ॥ [राष्ट्रेभ्यः] राष्ट्र पञ्चमी भ्यस् ।
[ आभिसारकः] अभि 'सं गतौ' (२५) सृ । अभिसरन्तं प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । अभिसारयतीति अभिसारः । 'अच्' (५।१।४९) अच्प्र० → अ ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [209]