________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२११
[आजमीढकः] अज 'मिहं सेचने' (५५१) मिह । अजैमिह्यन्ते स्म = अजमीढाः । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'हो धुट-पदान्ते' (२।१२८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तवर्गस्य०' (१।३।६०) ध० → ढ० । 'ढस्तड्डे' (१।३।४२) ढलोप:-पूर्वस्वरस्य दीर्घः । अजमीढेषु भवः = आजमीढकः ।
[आजकुन्दकः] अजाः कुन्दा येषु ते = अजकुन्दाः, तेषु जातः = आजकुन्दकः ।
[कालञ्जरकः] कालमपि जरयन्ति = कालजराः । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । पृषोदरादित्वात् मोऽन्तः । कालञ्जरेषु भवः = कालजरकः ।
[वैकुलिशकः] विगतं कुलिशमस्य सः = विकुलिशः, स एव देवताऽस्य सः = वैकुलिशः । 'देवता' (६।२।१०१) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । वैकुलिशेषु भवः = वैकुलिशकः । अनेन अकप्र० → अक । 'अवर्णवर्णस्य' (७४/६८) अलुक् ।
विषयग्रहणमनन्यत्र भावार्थम् । न विद्यतेऽन्यत्र बहुविषयात् भावो यस्य सः । तथा अर्थं प्रयोजनमस्य सः, तम् । _ [वार्तनः] 'वृतूङ् वर्त्तने' (९५५) वृत् । वर्त्ततेऽनयेति । 'अनट्' (५।३।१२४) अनटप्र० → अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । वर्तनी च वर्त्तनी च वर्तनी च = वर्त्तन्यः, तासु भवः = वार्त्तनः । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् ।
[ गर्त्तकः ] त्रयो गर्ता येषु ते = त्रिगर्ताः । त्रिगर्तेषु भवः = त्रैगर्त्तकः । अनेन अकञ्प्र० → अक । वृद्धिः ऐ। 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अत्र गर्नोत्तरपदलक्षण ईयो बाध्यते ॥छ।।
धूमादेः ॥ ६।३।४६ ॥ [धूमादेः] धूम आदिर्यस्य सः = धूमादिः, तस्मात् । [धौमकः] धूमे भवः = धौमकः । अनेन अकप्र० → अक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[षाडण्डकः ] षडण्डेषु भवः = षाडण्डकः । अनेन अकप्र० → अक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[वतण्डव] वतण्डं वाति = वतण्डवः । 'आतो डोऽह्वा-वा-मः' (५।१७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् ।
[आर्जुनाव] ऋजुनाव । ऋजुनावानां निवासः = आर्जुनावः । 'निवासा-ऽदूरभव०' (६।२।६९) अण्प्र० → अ । वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[दाण्डायन] दण्डिन् । दण्डिनां समूहः = दाण्डः । 'श्वादिभ्योऽज्' (६।२।२६) अप्र० → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लोपः । दाण्डमयनमस्य सः ।
[ संस्फीय ] 'स्फायैङ् वृद्धौ' (८०४) स्फाय, सम्पूर्व० । संस्फायते = संस्फीय । 'अच्' (५।१।४९) अच्प्र० → अ । पृषोदरादित्वात् ईत्वेऽपि ।
[पाठेय] 'पठ व्यक्तायां वाचि' (२१३) पठ् । पठतीति । 'पदि-पठि-पचि-स्थलि-हलि-कलि-बलि-वलि-वल्लिपल्लि-कटि-चटि-वटि-वधि-गाध्यचि-वन्दि-नन्द्यवि-वशि-वाशि-काशि-छर्दि-तन्त्रि-मन्त्रि-खण्डि-मण्डि-चण्डि
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [211]