________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
वृद्धेञः ।। ६।३।२८ ।। [वृद्धेञः] वृद्धे इञ् = वृद्धेञ्, तस्मात् ।
[दाक्षाः] दक्षस्यापत्यं वृद्धं = दाक्षिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । दाक्षेरिमे च्छात्राः = दाक्षाः । अनेन अप्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । जस् ।
[प्लाक्षाः] प्लक्षस्यापत्यं वृद्धं = प्लाक्षिः । 'अत इञ्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्लाक्षेरिमे च्छात्राः = प्लाक्षाः । अनेन अप्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । जस् ।
[सौतङ्गमीयः] सुत अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५) - 'गम्लूं गतौ' (३९६) गम् । सुतं गच्छति । 'नाम्नो गम:०' (५।१।१३१) खप्र० → अ । 'खित्यन०' (३।२।१११) मोऽन्तः । सुतङ्गमेन निवृत्ता = सौतङ्गमी । 'सुतङ्गमादेरिब्' (६।२।८५) इप्र० । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलोपः । 'इत्र इतः' (२।४/७१) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलोपः । सौतङ्गम्यां नगर्यां भवः = सौतङ्गमीयः । 'दोरीयः' (६।२।३२) ईयप्र० । 'समानानां तेन०' (१।२।१) दीर्घः ।
[शालङ्काः ] शलङ्कु । शलङ्कोरपत्यं वृद्धं = शालङ्कि(:) । 'शालङ्क्यौदि-षाडि-वाड्वलि' (६।१।३७) इत्यादिना शालङ्किनिपातः । शालङ्करपत्यं युवा । 'यजिञः' (६।१।५४) आयनणप्र० । 'पैलाऽऽदेः' (६।१।१४२) आयनण्लुप् । शालङ्केरिमे च्छात्राः = शालङ्काः । अनेन अप्र० । 'अवर्णवर्णस्य' (७/४/६८) इलुक् । जस् ॥छ।।
न द्विस्वरात् प्राग्भरतात् ।। ६।३।२९ ।।
[न] न प्रथमा सि ।
[द्विस्वरात् ] द्वौ स्वरौ यत्र तत् = द्विस्वरम्, तस्मात् ।
[ प्राग्भरतात् ] प्राङ् च भरतश्च = प्राग्भरतम्, तस्मात् । 'वृद्धेजः' (६।३।२८) इत्यस्य निषेधः ।
[चैङ्कीयाः ] चिङ्कस्यापत्यं = चैङ्किः । 'अत इञ्' (६।१।३१) इप्र० → इ । वृद्धिः ऐ । चिङ्काया अपत्यं वृद्धं वा = चैङ्कि(ः) । इप्र० → इ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । चैङ्केरिमे च्छात्राः = चैङ्कीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । जस् ।
[पौष्पीयाः] पुष्पस्य पुष्पाया वा अपत्यं = पौष्पि(:) । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अ-आलुक् । पौष्पेरिमे च्छात्राः = पौष्पीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । जस् ।
[काशीयाः] काशस्यापत्यं वृद्धं काशि(:) । 'अत इञ्' (६।१।३१) इप्र० → इ । काशेरिमे च्छात्राः = काशीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । 'समानानां०' (१।२।१) दीर्घः । जस् ।
[वाशीयाः] वाशस्यापत्यं वृद्धं = वाशि(:) । 'अत इञ्' (६।१।३१) इप्र० → इ । वाशेरिमे च्छात्राः = वाशीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । 'समानानां०' (१।२।१) दीर्घः । जस् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [198]|