________________
षष्ठाध्यायस्य तृतीयः पादः ॥
१९७
[शौरसेनः] सू(शू)रा सेना येषां ते = सू(शू)रसेनाः, तेषु भवः = शौरसेनः । 'बहुविषयेभ्यः' (६।३।४५) इत्यस्याकञोऽपवादः । अनेन अप्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् ।
[वाहीकः ] वाहीकेषु भवः = वाहीकः ।
[रौमकः] रोमकेषु भवः = रौमकः । नृवाचिनो 'दोरीयः' (६।३।३२) इत्यस्य, देशनाचिनस्तु 'क-खोपान्त्य०' (६।३।५९) इत्यस्यापवादस्तदुभयमपि श्लिष्टनिर्देशेन दुलक्षणस्येत्यनेन संगृहीतं, उभाभ्यामपि दुसंज्ञायामेव विधानात् अनेन अप्र० → अ । वृद्धि: औ । 'अवर्णेवर्णस्य' (७४।६८) अलोपः ।
[पाटच्चरः] अट (१९४) - ‘पट गतौ' (१९५) पट् । पटतीति पटत् । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । पटच्चरति = पटच्चरः । भूतपूर्वः पटन् = पटच्चरः । 'भूतपूर्वे प्चरट्' (७।२।७८) प्चरटप्र० → चर । पटच्चरे भवः = पाटच्चरः । 'रोपान्त्यात्' (६।३।४२) इत्यकञोऽपवादः । अनेन अप्र० → अ | वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ॥छ।।
शकलादेर्यञः ॥ ६।३।२७ ॥ [शकलादेः ] शकल आदिर्यस्य सः = शकलादिः, तस्मात् । [यत्रः] यञ् पञ्चमी ङसि । गर्गाद्यन्तर्गणः शकलादिः ।।
[शाकलाः] शकलस्यापत्यं वृद्धं = शाकल्यः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । शाकल्यस्य इमे च्छात्राः = शाकलाः । अनेन अप्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । जस् ।
[काण्वाः ] कण्वस्यापत्यं वृद्धं = काण्व्यः । 'गर्गादेर्यब्' (६।११४२) यप्र० → य । वृद्धिः आ । काण्व्यस्य इमे च्छात्राः = काण्वाः । अनेन अप्र० → अ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । जस् ।
[गौकक्षाः] गोकक्षस्यापत्यं वृद्धं = गौकक्ष्यः । 'गर्गादेर्य' (६।१।४२) यप्र० → य । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । गौकक्ष्यस्य इमे च्छात्राः = गौकक्षाः । अनेन अप्र० → अ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'तद्धितय०' (२।४।९२) यलुक् । जस् ।
[वामरथाः] वामरथस्यापत्यं वृद्धं = वामरथ्यः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । वामरथ्यस्य इमे च्छात्राः = वामरथाः । अनेन अप्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'तद्धितय०' (२।४।९२) यलुक् । जस् ।
[शाकलीयम् ] शकलो देवताऽस्य = शाकलः । 'देवता' (६।२।१०१) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । शाकलस्येदं = शाकलीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलोपः ।
ज[काण्वीयाः] कण्वादागतः = काण्वः । 'तत आगते' (६।३।१४९) अण्प्र० → अ । 'वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । काण्वस्य इमे च्छात्राः = काण्वीयाः । 'दोरीयः' (६।२।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । जस् ॥छ।। ॐ बृहद्वृत्तौ - काण्ठीयाः ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [197]