________________
१९६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
उदग्ग्रामाद् यकृल्लोम्नः ॥ ६।३।२५ ॥ [उदग्ग्रामात् ] उदङ् चासौ ग्रामश्च = उदग्ग्रामः, तस्मात् । [ यकृल्लोम्नः] यकृल्लोमन् इत्यखण्डम् । पञ्चमी ङसि । 'अनोऽस्य' (२।१।१०८) अलुक् ।
[याकृल्लोमः] यकृत्-कालेयम्, तदाकाराणि लोमानि यत्र तत् = यकृल्लोमन् । यकृल्लोमनि भवः = याकृल्लोमः । अनेन अप्र० → अ । वृद्धिः आ । 'नोऽपदस्य तद्धिते' (७४।६१) अन्लोपः ।।
[याकृल्लोमनः ] यकृल्लोमनि भवः(वाः) = याकृल्लोमः(मनः) । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धिः आ । 'अणि' (७४।५२) इत्यनेनान्त्यस्वरादिलोपाभावः ।
[प्रैक्षिणः] प्रेक्षाऽस्यास्ति = प्रेक्षी । 'प्रेक्षादेरिन्' (६।२।८०) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रेक्षिणि भवः = प्रैक्षिणः । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धि: ऐ ।
[कौष्टिनः ] कोष्टोऽस्यास्ति । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'स्त्रियां नृतोऽस्वस्रादेर्डीः' (२।४।१) ङी । कोष्टिन्यां भवः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'जातिश्च णि०' (३२।५१) पुंवद्भावः । वृद्धि: औ ॥छ।
___ गौष्ठी-तैकी-नैकेती-गोमती-शूरसेन-वाहीक-रोमक-पटच्चरात् ॥ ६।३।२६ ॥ [गौष्ठीतैकीनकेतीगोमतीशरसेनवाहीकरोमकपटच्चरात् ] गौष्ठी च तैकी च नैकेती च गोमती च सू(श)रसेनश्च वाहीकश्च रोमकश्च पटच्चरश्च = गोष्ठीतैकीनैकेतीगोमतीसू(शू)रसेनवाहीकरोमकपटच्चरम्, तस्मात् ।
[गौष्ठः ] गो 'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव०' (२।३।९८) स्था । 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (न्या० सं० वक्ष०(१)/सूत्र(२९)) स्था । गावस्तिष्ठन्त्यस्मिन्निति गोष्ठम् । 'स्थादिभ्यः कः' (५।३।८२) कप्र० → अ । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् । 'गो-ऽम्बा-ऽऽम्ब-सव्या-ऽप-द्वि-त्रिभूम्यग्नि-शेकु-शकु-क्वगु-मञ्जि-पुञ्जि-बहि:-परमे-दिवेः स्थस्य' (२।३।३०) षत्वम् । गोष्ठस्य निवासः । 'निवासाऽदूरभव इति देशे नाम्नि' (६।२।६९) अण्प्र० । गोष्ठं देवताऽस्याः = गौष्ठी । 'देवता' (६।२।१०१) अण्प्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्o' (२।४।२०) ङी । गो(गौ)ष्ठ्यां भवः = गौष्ठः । अनेन अप्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । वृद्धिः ।
[तैकः ] तिको देवताऽस्याः = तैकी । 'देवता' (६।२।१०१) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्' (२।४।२०) ङी । तैक्यां भवः । अनेन अप्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[नैकेतः] निकेतो देवताऽस्याः = नैकेती । 'देवता' (६।२।१०१) अणप्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्o' (२।४।२०) ङी । नैकेत्यां भवः । अनेन अप्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
एभ्यः 'वाहीकेषु ग्रामात्' (६।३।३६) इत्यनेन वाहीकग्रामलक्षणयोणिकेकणोस्तैक्याः कोपान्त्यलक्षणस्य 'क-खोपान्त्यकन्था-पलद-नगर-ग्राम-हृदोत्तरपदाद् दोः' (६।३।५९) इत्यादिना ईयस्य चापवादः ।
[गौमतः] गो । गावः सन्त्यस्यां = गोमती । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'अधातूदृदितः' (२।४।२) ङी । गोमत्यां भवः = गौमतः । 'जातिश्च णि०' (३।२।५१) पुंवत् । 'ईतोऽकञ्' (६।३।४१) इत्यस्यापवादः । अनेन अप्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [196]