________________
षष्ठाध्यायस्य तृतीयः पादः ॥
१९५
[अपरकाळ्मृत्तिकी] अपरकृष्णमृत्तिकायां भवः = अपरकार्णमृत्तिकी । अनेन णप्र० → अ । 'प्राग्ग्रामाणाम्' (७।४।१७) इत्युत्तरपदवृद्धिः आर् । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । 'अणजेयेकण' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ॥छ।।
मद्रादञ् ॥ ६।३।२४ ।।
[ मद्रात् ] मद्र पञ्चमी ङसि ।
[अञ्] अञ् प्रथमा सि ।
[पौर्वमद्रः, पौर्वमद्री] पूर्वेषु मद्रेषु भवः = पौर्वमद्रः । अनेन अप्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । द्वितीये 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
ननु णप्रत्ययेनाधिकारायातेन सेत्स्यति किमञ्वचनेन ? सत्यम् - अञ्वचनं ङ्यर्थः, तर्हि 'प्राग् जितादण' (६।१।१३) इत्यणैव सेत्स्यति, इत्याह बहुत्व इत्यादि । अयमर्थः - मद्रशब्दो जनपदवचनो भ(म)द्रवचनश्च तत्र भ(म)द्रवचनादणि सिध्यति, जनपदवाचिनस्तु न सिध्यति, बहुत्वे 'बहुविषयेभ्यः' (६।३।४५) इत्यकप्राप्तस्तदपवादे 'वृजि-मद्राद् देशात् कः' (६।३।३८) इति के प्राप्तेऽञ्वचनम् ।
__ [सुपाञ्चालकः] सुपञ्चालेषु भवः = सुपाञ्चालकः । 'बहुविषयेभ्यः' (६।३।४५) अकप्र० → अक । 'सुसर्वा-ऽर्द्धाद् राष्ट्रस्य' (७।४।१५) इत्युत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[सर्वपाञ्चालकः] सर्वपञ्चालेषु भवः = सर्वपाञ्चालकः । 'बहुविषयेभ्यः' (६।३।४५) अकप्र० → अक । 'सु-सर्वा-ऽर्द्धाद् राष्ट्रस्य' (७।४।१५) इत्युत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[अर्द्धपाञ्चालकः] अर्द्धपञ्चालेषु भवः = अर्द्धपाञ्चालकः । 'बहुविषयेभ्यः' (६।३।४५) अकञ्प्र० → अक । 'सु-सर्वा-ऽर्द्धाद्' (७४।१५) इत्युत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[पूर्वपाञ्चालकः] पूर्वेषु पञ्चालेषु भवः = पूर्वपाञ्चालकः । 'बहुविषयेभ्यः' (६।३।४५) अकञ्प्र० → अक । 'अमद्रस्य दिशः' (७।४।१६) इत्युत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[अपरपाञ्चालकः] अपरेषु पञ्चालेषु भवः = अपरपाञ्चालकः । 'बहुविषयेभ्यः' (६।३।४५) अकप्र० → अक । 'अमद्रस्य दिशः' (७।४।१६) इत्युत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[सुमागधकः] सुमगधेषु भवः = सुमागधकः । 'बहुविषयेभ्यः' (६।३।४५) अकप्र० → अक । 'सु-सर्वाऽर्द्धाद्' (७।४।१५) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[सर्वमागधकः ] सर्वमगधेषु भवः = सर्वमागधकः । 'बहुविषयेभ्यः' (६।३।४५) अकप्र० → अक । 'सु-सर्वाऽर्द्धाद्' (७।४।१५) उत्तरपदवृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[सुवृजिकः ] सुवृजिषु भवः = सुवृजिकः । 'वृजि-मद्राद् देशात् कः' (६।३।३८) कप्र० । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[सुमद्रकः ] (सु)मद्रेषु भवः = (सु)मद्रकः । 'वृजि-मद्राद् देशात् कः' (६।३।३८) कप्र० । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ॥छ।।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [195]