________________
षष्ठाध्यायस्य तृतीयः पादः ॥
१९९
[पान्नागाराः] पन्नं पतितमगारं यस्य सः = पन्नागारः । पन्नागारस्यापत्यं वृद्धं = पान्नागारि(:) । 'अत इञ्' (६।१।३१) इप्र० । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । पान्नागारेरिमे च्छात्रा: = पान्नागाराः । 'वृद्धेञः' (६।३।२८) अप्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । जस् ।।
[मान्थरेषणाः] मन्थरेषणस्यापत्यं वृद्धं = मान्थरेषणि(:) । 'अत इञ्' (६।१।३१) इप्र० → इ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । मान्थरेषणेरिमे च्छात्राः = मान्थरेषणाः । 'वृद्धेञः' (६।३।२८) अप्र० । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । जस् । द्वावपि प्राच्य-भरतौ ।
[दाक्षाः] दक्षस्यापत्यं वृद्धं = दाक्षिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । दाक्षेरिमे च्छात्राः = दाक्षाः । 'वृद्धेञः' (६।३।२८) अप्र० → अ । 'अवर्णेवर्णस्य' (७/४/६८) इलुक् । जस् ।
[प्लाक्षाः] प्लक्षस्यापत्यं वृद्धं = प्लाक्षिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्लाक्षेरिमे च्छात्राः = प्लाक्षाः । 'वृद्धेञः' (६।३।२८) अप्र० → अ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । जस् । प्राग्ग्रहणे भरतानां ग्रहणं न भवतीति स्वशब्देन ग्रहणम् ॥छ।।
भवतोरिकणीयसौ ॥ ६।३।३० ॥ [भवतोः] भवतु पञ्चमी ङसि । [इकणीयसौ] इकण् च ईयस् च = इकणीयसौ ।
[भावत्कम्, भावत्की] भवतः भवत्या वा इदं = भावत्कम्, भावत्की । अनेन इकण्प्र० → इक । 'जातिश्च णि तद्धितय-स्वरे' (३।२।५१) पुंवत् । 'ऋवर्णोवर्ण-दोसिसुसशश्वदकस्मात्त इकस्येतो लुक्' (७४/७१) इकारलोपः । सि-अम् । 'अणजेयेकण्' (२।४।२०) ङी ।
[भवदीयः, भवदीया] भवतोऽयं = भवदीयः, भवदीया । अनेन ईयस्प्र० → ईय । 'धुटस्तृतीयः' (२११७६) त० → द० । 'आत्' (२।४।१८) आप्प्र० → आ ।
सकारो 'नाम सिदय्व्यञ्जने' (११।२१) इति पदत्वार्थः । उकारान्तग्रहणात् शत्रन्तान्न भवति ।
[भावतम् ] 'भू सत्तायाम्' (१) भू । भवतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्या०' (२।१।११३) अलोपः । भवत इदं = भावतम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । वृद्धिः आ । सिअम् ॥छ।।
पर-जन-राज्ञोऽकीयः ॥ ६।३।३१ ॥
[परजनराज्ञः] परश्च जनश्च राजा च = तत्, तस्मात् । [अकीयः] अकीय प्रथमा सि ।। [परकीयः ] परस्यायं = परकीयः । अनेन अकीयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [जनकीयः] जनस्यायं = जनकीयः । अनेन अकीयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [199]