________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
क्वेहा-ऽमा-त्र-तसस्त्यच् ॥ ६।३।१६ ।।
[क्वेहाऽमात्रतसः] क्वश्च इहश्च अमा च त्रश्च तस् च = क्वेहाऽमात्रतस्, तस्मात् ।
[त्यच् ] त्यच् प्रथमा सि ।
[क्वत्यः] किम् । कस्मिन् । 'क्व-कुत्रा-ऽत्रेह' (७।२।९३) क्वनिपातः । क्व भवः = क्वत्यः । अनेन त्यच्प्र० → त्य ।
[इहत्यः] अदस् । अस्मिन् = इह । 'क्व-कुत्रा-ऽत्रेह' (७।२।९३) इहनिपातः । इह भवः = इहत्यः । अनेन त्यच्प्र० → त्य ।
[अमात्यः] अमा-सह भूपालेन एकान्ते भवतीति अमात्यः । अनेन त्यच्प्र० → त्य ।
[तत्रत्यः] तद् । तस्मिन् = तत्र । 'सप्तम्याः ' (७।२।९४) त्रप्प्र० → त्र । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्या०' (२।१।११३) अलोपः । तत्र भवः = तत्रत्यः । अनेन त्यच्प्र० → त्य ।
[ यत्रत्यः ] यद् । यस्मिन् = यत्र । 'सप्तम्याः' (७।२।९४) त्रप्प्र० → त्र । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्या०' (२।१।११३) अलोपः । यत्र भवः = यत्रत्यः । अनेन त्यच्प्र० → त्य ।
[ततस्त्यः ] तद् । तस्मात् = ततः । 'किमद्व्यादिसर्वाद्यवैपुल्यबहोः पित् तस्' (७।२।८९) पित् तस्प्र० । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्या०' (२।१।११३) अलोपः । तत्र(तः) आगतः = ततस्त्यः । अनेन त्यच्प्र० → त्य ।
[यतस्त्यः ] यद् । यस्मात् = यतः । 'किमव्यादि०' (७।२।८९) पित् तस्प्र० । 'आ द्वेरः' (२।१४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । यत आगतः = यतस्त्यः । अनेन त्यच्प्र० → त्य ।
[कुतस्त्यः ] किम् । कस्मात् = कुतः । 'इतोऽत:-कुतः' (७।२।९०) तस्प्र०-किम् → कुदेशः । कुत आगतः = कुतस्त्यः । अनेन त्यच्प्र० → त्य ।
[आविष्ट्यः] आविः - प्राकाश्ये भवः = आविष्ट्यः । मतान्तरे त्यच्प्र० → त्य । 'नाम्यन्तस्था-कवर्गात्०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० ॥छ।।
नेर्धवे ।। ६।३।१७ ॥ [ नेधुंवे] नि पञ्चमी ङसि । 'ङित्यदिति' (१।४।२३) ए । 'एदोद्भ्यां ङसि०' (१।४।३५) ङसि० → र० । ध्रुव सप्तमी ङि।
[नित्यं ध्रुवम् ] नि-नियतं सर्वकालभवं = नित्यम् । अनेन त्यच्प्र० → त्य । सि-अम् । ध्रुवम् ॥छ।।
निसो गते ॥ ६३।१८ ॥
[निसः] निस् पञ्चमी ङसि । [गते] गत सप्तमी ङि ।
[निष्ट्यश्चण्डालः ] निर्गता(तो) वर्णाश्रमेभ्यः = निष्ट्यः । अनेन त्यच्प्र० → त्य । 'हुस्वान्नाम्नस्ति' (२।३।३४) ष० । 'तवर्गस्य श्चवर्ग०' (११३।६०) त० → ट० । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । चण्डालः ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [192]