________________
षष्ठाध्यायस्य तृतीयः पादः ॥
१९१
पूर्वः पूर्वा वा दिग्-देशः कालो वा रमणीयः = पुरः । 'पूर्वा-ऽवरा-ऽधरेभ्योऽसस्तातौ पुरवधश्चैषाम्' (७२।११५) अस्प्र० - "पुरः" देशः ।
[दाक्षिणानि जुहोति ] दक्षिणायां भवानि = दाक्षिणानि । अत्र दक्षिणाशब्दो गवादिवचनः ॥छ।।
वल्यूदि-पर्दि-कापिश्याष्टायनण् ॥ ६।३।१४ ॥ [वहल्यूदिपदिकापिश्याः] वहलिश्च ऊर्दिश्च पदिश्च कापिशी च = वह्ल्यूदिपदिकापिशी । तस्याः = वह्ल्यूदिपदिकापिश्याः । सूत्रत्वात् समाहारेऽपि न क्लीबत्वम् ।
[टायनण् ] टायनण् प्रथमा सि ।
[वालायनः, वालायनी] वलिषु भवः = वालायनः । वलिर्देशविशेषः । 'बहुविषयेभ्यः' (६।३।४५) इत्यकञ्बाधकः । अनेन टायनण्प्र० → आयन । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । द्वितीये 'अणजेयेकण्' (२।४।२०) ङी ।।
[और्दायनः, और्दायनी] ऊौं भवो भवा वा = औयनः । अनेन टायनण्प्र० → आयन । वृद्धिः औ । अन्यत्र 'अणजेयेकण्' (२।४।२०) ङी ।।
[पार्दायनः, पार्दायनी ] पर्दो भवो भवा वा = पार्दायनः, पार्दायनी । अनेन टायनण्प्र० → आयन । वृद्धिः आ । अन्यत्र 'अणजेयेकण्' (२।४।२०) ङी ।।
[कापिशायनं मधु, कापिशायनी द्राक्षा] कापिश्यां भवो भवा वा = कापिशायनं मधु, कापिशायनी द्राक्षा । अनेन टायनण्प्र० → आयन । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । सि-अम् । अन्यत्र 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ॥छ।।
रङ्कोः प्राणिनि वा ॥ ६।३।१५ ॥
[रङ्कोः] रङ्कु पञ्चमी ङसि । [प्राणिनि] प्राणिन् सप्तमी ङि । [वा] वा प्रथमा सि ।
[राङ्कवायणः, राङ्कवो गौः] रङ्कुषु भवः = राङ्कवायणः । अनेन टायनणप्र० → आयन । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । एवम्-राङ्कव:-देशवाचिनः । 'कोपान्त्याच्चाऽण्' (६।३।५६) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव ।
[राङ्कवः कम्बलः] रङ्कुषु भवः = राङ्कवः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । कम्बल प्रथमा सि ।
[राङ्कवको मनुष्यः] रङ्कुषु भवः = राङ्कवकः । 'कच्छादेर्नु-नृस्थे' (६।३।५५) अकप्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । मनुष्यः ॥छ।।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [191]