________________
१९०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[तृण्या] तृणानां समूहः = तृण्या । 'पाशाऽऽदेश्च ल्यः' (६।२।२५) ल्यप्र० → य । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ ।
[वन्या] वनानां समूहः = वन्या । 'पाशाऽऽदेश्च ल्यः' (६।२।२५) ल्यप्र० → य । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ ।
[पल्या ] पले साध्वी = पल्या । 'पृषोदरादयः' (३।२।१५५) निपातः । [ मुल्या ] मुले साध्वी = मुल्या । ‘पृषोदरादयः' (३।२।१५५) निपातः ॥छ।।
कुल-कुक्षि-ग्रीवाच्छ्वाऽस्यलङ्कारे ॥ ६।३।१२ ॥ [ कुलकुक्षिग्रीवात् ] कुलश्च कुक्षिश्च ग्रीवा च = कुलकुक्षिग्रीवम् । ‘क्लीबे' (२।४।९७) ह्रस्वः । तस्मात् । [श्वाऽस्यलङ्कारे ] श्वा च असिश्च अलङ्कारश्च = श्वाऽस्यलङ्कारम्, तस्मिन् ।
[कौलेयकः श्वा, कौलोऽन्यः] कुले शुद्धान्वये भवो जातो वा = कौलेयकः । अनेन एयकप्र० → एयक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । एवम्-कौलः । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धिः औ ।
[कौक्षेयकोऽसिः, कौक्षोऽन्यः] कुक्षौ भवः = कौक्षेयकः । अनेन एयकप्र० → एयक । वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) इलुक् । असिः । यः कङ्ककुक्षिनिर्जीर्णेनायसा कृतः । एवम्-कौक्षः । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धिः औ । __ [ ग्रैवेयकोऽलङ्कारः, ग्रैवोऽन्यः ] ग्रीवायां भवः = ग्रैवेयकः । अनेन एयकप्र० → एयक । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । अलङ्कारः । एवम् - ग्रैवः । 'ग्रीवातोऽण् च' (६।३।१३२) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् ॥छ।।
दक्षिणा-पश्चात्-पुरसस्त्यण् ॥ ६।३।१३ ॥ [ दक्षिणापश्चात्पुरसः] दक्षिणा च पश्चाच्च पुरस् च = दक्षिणापश्चात्पुरस्, तस्मात् । [त्यण् ] त्यण् प्रथमा सि ।
[दाक्षिणात्यः] दक्षिणा दिक्, तस्यां भवः = दाक्षिणात्यः । अनेन त्यणप्र० → त्य । वृद्धिः आ । अथवा दक्षिणस्यां दिशि वसति । 'वा दक्षिणात् प्रथमा-सप्तम्या आः' (७।२।११९) आप्र० । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । तत्र भवः = दाक्षिणात्यः । अनेन त्यणप्र० → त्य । वृद्धिः आ । 'कौण्डिन्या-ऽगस्त्ययोः कुण्डिना-ऽगस्ती च' (६।१।१२७) कौण्डिन्यनिर्देशात् पुंवदनित्य इति 'सर्वादयोऽस्यादौ' (३।२।६१) न पुंवत् ।
[पाश्चात्यः ] पश्चात् भवः = पाश्चात्यः । अनेन त्यणप्र० → त्य । वृद्धिः आ । [पौरस्त्यः] पुरो भवः = पौरस्त्यः । अनेन त्यण्प्र० → त्य । वृद्धिः औ ।
पश्चात्-पुरः शब्दौ यदि(दा) कालवाचिनौ तदा परत्वात् तनटापभाव्यमित्यर्थादिह सूत्रे तौ दिग्-देशवाचिनौ पर्यवसितौ, ततस्तत्साहचर्यात् दक्षिणाशब्दोऽपि दिग्-देशवाची ग्राह्यौ, न द्विजदेयवाचीत्यर्थः ।
अपरा दिग्-देश: कालो वा रमणीयः = पश्चात् । 'अधरा-ऽपराच्चाऽऽत्' (७।२।११८) आत्प्र० । 'पश्चोऽपरस्य दिक्पूर्वस्य चाऽऽति' (७।२।१२४) अपरास्थाने "पश्च"देशः ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [190]