________________
षष्ठाध्यायस्य तृतीयः पादः ॥
ऐषमो-ह्यः-श्वसो वा ॥ ६।३।१९ ॥
[ऐषमोह्यःश्वसः] ऐषमस् च ह्यस् च श्वस् च = ऐषमोह्यःश्वस्, तस्मात् । [वा] वा प्रथमा सि ।
[ऐषमस्त्यम्, ऐषमस्तनम् ] इदम् । अस्मिन् संवच्छरे । 'ऐषमः-परुत्-परारि वर्षे' (७२।१००) इति समसिणप्र० → समस् - इदम्० → इ० । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृ० ऐ । 'नाम्यन्तस्था-कवर्गात्०' (२।३।१५) षत्वम् । ऐषमो भवम् = ऐषमस्त्यम् । अनेन त्यच्प्र० → त्य । एवम्-ऐषमस्तनम् । ‘सायं-चिरं-प्राणें-प्रगेऽव्ययात्' (६।३।८८) तनटप्र० → तन । सि-अम् । 'सो रुः' (२।१।७२) स० → र० । 'च-ट-ते सद्वितीये' (१।३।७) र० → स० ।
[ह्यस्त्यम्, शस्तनम् ] ह्यस् । ह्यो भवं = ह्यस्त्यम् । अनेन त्यच्प्र० → त्य । एवम्-शस्तनम् । 'सायं-चिरंप्राणे०' (६।३।८८) तनटप्र० → तन । सि-अम् ।
[श्वस्त्यम्, श्वस्तनम् ] श्वस् । श्वो भवं = श्वस्त्यम् । अनेन त्यच्प्र० → त्य । एवम्-श्वस्तनम् । 'सायं-चिरंप्राणे०' (६।३।८८) तनटप्र० → तन । सि-अम् ।
[शौवस्तिकम् ] श्वो भवं = शौवस्तिकम् । 'श्वसस्तादिः' (६।३।८४) इकण्प्र० - तादिः । 'लोकात्' (१।१।३) श् पाठउ विश्लेषियइ । 'द्वारादेः' (७।४।६) औ । सि-अम् ॥छ।।
कन्थाया इकण् ॥ ६।३।२० ॥ [कन्थायाः] कन्था पञ्चमी ङसि । [इकण्] इकण प्रथमा सि ।
[कान्थिकः] कन्था आमविशेषस्तत्र भवः = कान्थिकः । अनेन इकण्प्र० → इक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ॥छ।।
वर्णावकञ् ॥ ६।३।२१ ॥ [वौँ ] वर्गु सप्तमी ङि । [अकञ्] अकञ् प्रथमा सि ।
[कान्थकः] वर्णनाम नदः, तस्य समीपो देशोऽपि वर्णः, तस्मिन् या कन्था तस्यां भवः = कान्थकः । अनेन अकञ्प्र० → अक । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ॥छ।।
रूप्योत्तरपदारण्याण्णः ॥ ६।३।२२ ॥ [रूप्योत्तरपदारण्याण्णः ] रूप्य उत्तरपदं यस्य सः = रूप्योत्तरपदः । रूप्योतरपदश्च अरण्यश्च = रूप्योत्तरपदारण्यम् । तस्मात् = रूप्योत्तरपदारण्यात् । ण प्रथमा सि । 'धुटस्तृतीयः' (२।१।७६) त० → द० । 'प्रत्यये च' (१।३।२) द० → न० । 'तवर्गस्य श्चवर्ग' (१।३।६०) न० → ण० ।
[वार्करूप्यः, वार्करूप्या] वृक 'रूपण रूपक्रियायाम्' (१८९०) रूप् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । वृकै रूप्यते = वृकरूप्यः, वृकरूप्या । 'य एच्चातः' (५।१।२८) यप्र० । 'णेरनिटि' (४।३।८३) णिच्लोपः । वृकरूप्ये भवः = वार्करूप्यः । अनेन णप्र० → अ । वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [193]