________________
षष्ठाध्यायस्य तृतीयः पादः ॥
[इयः] इय प्रथमा सि । [राष्ट्रियः] राष्ट्रे क्रीतः कुशलो जातो भवो वा = राष्ट्रियः । अनेन इयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्।
[राष्ट्रिः ] राष्ट्रस्यापत्यं = राष्ट्रिः । 'अत इञ्' (६।३१) इप्र० → इ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
दूरादेत्यः ॥ ६।३।४ ॥
[दूरात् ] दूर पञ्चमी ङसि । [ एत्यः] एत्य प्रथमा सि ।
[ दूरेत्यः] दूरे भवः = दूरेत्यः । अनेन एत्यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
उत्तरादाहञ् ।। ६।३।५ ।।
[उत्तरात् ] उत्तर पञ्चमी ङसि ।
[आहञ् ] आहञ् प्रथमा सि ।
[औत्तराहः ] उत्तरतीति उत्तरः । 'अच्' (५।१२४९) अच्प्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । उत्तरे कुशलः = औत्तराहः । अनेन आहप्र० → आह । वृद्धि: औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्'
[औत्तराहा स्त्री] उत्तरस्यां दिशि कुशलः = औत्तराहा । अनेन आहप्र० → आह । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । 'आत्' (२।४।१८) आप्प्र० → आ ।
[औत्तराही] उत्तरस्यां अदूरवर्तिन्यां दिशि वसति = औत्तराही । 'वोत्तरात्' (७२।१२१) आहिप्र० । 'अवर्णेवर्णस्य' (७४/६८) आलोपः । उत्तराहिशब्दोऽव्ययम् उत्तराहि भवा = औत्तराहि(ही) । 'भवे' (६।३।१२३) अण्प्र०
→ अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
उत्तरस्यां दूरवर्तिन्यां दिशि देशे वा वसति । 'वोत्तरात्' (७२।१२१) इत्यनेन दिशि देशे वाहि कालरूपत्वेऽर्थे आहौ सति परत्वात् 'सायं-चिरं-प्राणे-प्रगे-ऽव्ययात्' (६।३।८८) तनडेव, न त्वण ॥छ।।
पारावारादीनः ॥ ६।३।६ ॥ [पारावारात् ] पारावार पञ्चमी ङसि । [ईनः] ईन प्रथमा सि ।
[पारावारीणः ] अवारः समुद्रस्तस्य पारम् । राजदन्तादित्वात् पूर्वनिपातः । पारावारे भवः = पारावारीणः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'र-घृवर्णान्नो ण०' (२।३।६३) न० → ण० ॥छ।।
व्यस्त-व्यत्यस्तात् ।। ६।३७ ॥ [व्यस्तव्यत्यस्तात् ] व्यस्तश्चासौ व्यत्यस्तश्च = व्यस्तव्यत्यस्तम्, तस्मात् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st.30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [187]