________________
१८८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[पारीणः] पारे भवः = पारीणः । [अवारीणः] अवारे भवः = अवारीणः ।
[अवारपारीणः] अवारस्य पारम् = अवारपारम् । 'राजदन्तादिषु' (३।१।१४९) इत्यनेन विभाषया पूर्वनिपातविधानात् इह न दो भावः(?) । अवारपारे भवः = अवारपारीणः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'र-घृवर्णान्नो ण०' (२।३।६३) न० → ण० ॥छ।।
द्यु-प्रागपागुदक्-प्रतीचो यः ॥ ६३८ ॥
[द्युप्रागपागुदक्प्रतीचः] मधुश्च (धु च) प्राङ् च अपाङ् च उदकाङ्) च प्रत्यङ् च = धुप्रागपागुदक्प्रत्यङ्, तस्मात् ।
[यः] य प्रथमा सि । [दिव्यम् ] दिव् । दिवि भवं = दिव्यम् । अनेन यप्र० । सि-अम् । [प्राच्यम् ] प्राच् । प्राचि प्राग्वा भवं = प्राच्यम् । अनेन यप्र० । दिक्शब्दात् दिक्-देश-कालेषु प्रथमा ।
[अपाच्यम् ] अपाचि भवम् = अपाच्यम् । अनेन यप्र० । सि-अम् । [उदीच्यम् ] उदीचि भवम् = उदीच्यम् । अनेन यप्र० । सि-अम् । [प्रतीच्यम् ] प्रतीचि भवं = प्रतीच्यम् । अनेन यप्र० । सि-अम् ।
दिग्देशवृत्तेः प्रागादेरयं यः कालवृत्तेस्त्वव्ययात् परत्वात् 'सायं-चिरं-प्राणे-प्रगे-ऽव्ययात्' (६।३।८८) इत्यादिना तनट् । अनव्ययात्तु 'वर्षा-कालेभ्यः' (६।३।८०) इकण् ।
[प्राक्तनम् ] प्राक् भवं = प्राक्तनम् । 'सायं-चिरं-प्राणे-प्रगे-ऽव्ययात्' (६।३।८८) तनटप्र० → तन । [प्राचिकम् ] प्राचि काले भवं = प्राचिकम् । 'वर्षा-कालेभ्यः' (६।३।८०) इकण्प्र० → इक ॥छा।
ग्रामादीनञ् च ।। ६।३९ ॥
[ग्रामात्] ग्राम पञ्चमी ङसि ।
[ईनञ् ] ईनञ् प्रथमा सि । [च ] च प्रथमा सि ।
[ग्रामीणः, ग्राम्यः] ग्रामे भवो जातो वा = ग्रामीणः । अनेन ईनप्र० → ईन । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । एवम्-ग्राम्यः । अनेनैव यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
अकार: 'तद्धितः स्वरवृद्धिहेतु०' (३।२।५५) इत्यनेन पुंवद्भावप्राप्तिनिषेधार्थः । [ग्रामीणाभार्यः] ग्रामीणा भार्या यस्य सः = ग्रामीणाभार्यः । 'गोश्चान्ते.' (२।४।९६) हुस्वः ॥छ।।
कत्त्र्यादेश्चैयकञ् ॥ ६।३।१० ॥ [कत्त्र्यादेः ] कत्त्रिरादिर्यस्य सः = कत्त्र्यादिः, तस्मात् । 卐 हैमप्रकाशे - द्यौश्च ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [188]