________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१८५
[औदूखलो यावकः ] उदूखले क्षुण्णः = औदूखलो यावकः । अनेन विहित: 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । - [चातुर्दशं रक्षः] चतुर्दश(शी) । चतुर्दश्यां दृश्यते = चातुर्दशम् । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अ(ई)लोपः । सि-अम् ।
[चातुरं शकटम् ] चतुर्भिरुह्यते = चातुरं शकटम् । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः आ । सि-अम् ।
[आश्वो रथः] अश्वैरुह्यते = आश्वो रथः । अनेन विहितः 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
[सांप्रतम् ] संप्रति युज्यते = सांप्रतम् । अनेन विहितः 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धि: आ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । सि-अम् ।
सांप्रतः सांप्रतीत्यपि वाच्यलिङ्गात् । यस्तु 'स्वयं छेत्तुमसाम्प्रतम्' ।
इत्याचार्यश्रीहेमचन्द्रविरचितायां बहद्वत्तौ तद्धितस्य
द्वितीयः पादः ॥छ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [185]